________________
इत्थञ्च सर्ववृत्तान्त-निवेदनपुरस्सरम् । वदति स्म ममैवैषा, ज्ञायतामृद्धिविस्तृतिः ॥ १२५ ॥
स्वान्ते ते चेद् भवेच्छङ्का, तदा सत्यापनाकृते । यत् पृच्छामि भवन्तं तद्, वक्तव्यं भवता स्फुटम् ॥ १२६॥ स्थाल्य: प्राप्ता यतः स्थानात्, तत्राऽन्यदपि वस्तु किम ? | प्राप्तं त्वया न वा श्रेष्ठिन् !, सत्यं सत्यं निगद्यताम् ॥ १२७॥ जिनदासवचः श्रुत्वा, धर्मो धर्म्यमुवाच तम् ।
ध्रुवं मया प्रभूतानि वस्तून्याप्तानि तत्स्थलात् ॥१२८॥ अप्यन्यद् भारपट्टादि, पल्यङ्कादि महाशय ! । चारूणि काष्ठजातानि महार्घ्याणीति बुध्यताम् ॥१२९॥
?
1
धर्मदासवचः श्रुत्वा जिनदासोऽब्रवीत्तदा ।
?
•
सन्ति यत्र च वस्तूनि तानि सर्वाणि साम्प्रतम् ॥१३०॥ तं देशं मां नयन्त्वाशु, श्रीमन्तस्तत्त्वदर्शिनः । हेतुगर्भं वचः श्रुत्वा तदा तैस्तत्र प्रापितः ॥ १३१ ॥ तत्रैकं जिनदासोऽसौ स्थूलपट्टं द्विधाऽकरोत् । लक्षमूल्यानि रत्नानि, निर्गतान्यैक्षताऽमुतः ॥ १३२ ॥ एवं वीक्ष्य ततस्तत्र, धर्मदासेन चिन्तितम् । अस्यैव निखिला सम्प- दस्मै देया हि सत्वरम् ॥१३३॥
9
एवं स्वचित्ते निर्धार्य, धर्मदासो महाशयः । तद्वस्तुजातं तस्मै हि, दातुं समुपचक्रमे ॥१३४॥ त्वदीयं वस्तु भोः श्रेष्ठिस्तुभ्यमेव समर्प्यते । गृहाण तत्कृपां कृत्वा, स्वकं दुःखं निवारय ॥१३५॥ तदोक्तं जिनदासेन, क्षीणपुण्यस्य मे यदि । ऋद्धिर्नष्टाऽखिला दैवा त्तव पार्श्वं समागमत् ॥१३६॥
श्रीजिनदास श्रेष्ठिकथा
45