________________
तन्निशम्य तदाऽऽलोक्य, विचित्रां घटनामिमाम् । अवादि धर्मदासेन, पश्चात्तप्तेन तं प्रति ॥११३॥ पादाऽऽघातैः प्रहृत्य त्वां, जिनदास ! निरागसम् । अनभिज्ञाततत्त्वेन, मयैवं दृष्कृतं कृतम् ॥११४॥ क्षन्तव्यो मेऽपराधोऽयं, जिनदास ! महामते ! । अविचारितमेवैतत्, कृत्यं कल्मषकारणम् ॥११५॥ जिनदासस्तदा वीक्ष्य, पश्चात्तप्तं तथाविधम् । धर्मदासमुवाचेत्थं, दैवमेवाऽत्र कारणम् ॥११६॥ नाऽपराधोऽस्ति ते भद्र ! सर्वं मे कर्मणः फलम् । पुण्यं विना यतस्तेऽत्र, गृहे भोक्तं समागमम् ॥११७॥ प्रारब्धे यदि मे नास्ति, मिष्टान्नं तस्य भोजने । विपरीतं फलं तस्या-ऽवश्यम्भाव्यभवन्मम ॥११८॥ श्रेष्ठिना धर्मदासेन, प्रवीभूतेन सर्वथा । उक्तं तेन कथं स्थाली, पूर्णा कण्ठेऽभिखण्डिता ? ॥११९॥ तदोक्तं जिनदासेन, भोजनाय च मे पुरः । कण्ठेऽभिखण्डिता स्थाली, स्थापिता परिवेषिणा ॥१२०॥ ममैवेयं न वा स्थाली, तां दृष्ट्वा चिन्तितं मया । तस्याः खण्डितभागे च, कण्ठखण्डो नियोजितः ॥१२१॥ भोज्योष्णत्व-द्रुतीभूत-जतुना च दृढीकृता । भग्ना न दृश्यते तासु, तस्माद् भ्रान्तिरजायत ॥१२२॥ खण्डमात्रेण किं कार्यं, भवेदिति विमृश्च च । न गृहीतो मया खण्ड-स्तत्कण्ठे योजितोऽप्यसौ ॥१२३॥ प्रातिकूल्येन दैवस्य, जातं कार्यं विलक्षणम् । तदेव स्वविपत्तीनां, मन्येऽहं मूलकारणम् ॥१२४॥
विविध हैम रचना समुच्चय
44