________________
नूनं पराङ्मुखे दैवे, मयैतत् स्वादुभोजनम् । भुक्तं तेनैव सञ्जाता, मम पादाभिघातना ॥१०१॥ यदि सत्यं वदामीत्थं, न हि मन्येत तेन तत् । तत्तूष्णीं पादघातस्य, सर्वथा सहनं वरम् ॥१०२॥ ताड्यमानोऽपि विपुलं, तूष्णीं तिष्ठन् हि तत्क्षणे । मुञ्चन्नश्रूणि नेत्राभ्यां, किञ्चिन्नाऽवङ्मुखेन स ॥१०३॥ रुदन्तं तं तथा दष्ट्वा, धैर्यातिशयशालिनम् । पप्रच्छ विस्मितः श्रेष्ठी, किं ते रोदनकारणम् ॥१०४॥ जिनदासस्तदोवाचा-ऽकथनं कथनाद् वरम् । बाढं विसिष्मिये श्रेष्ठी, श्रुत्वा तद्वचनं मृदु ॥१०५॥ अन्वयुक्त तदाऽतीवा-ऽऽग्रहेणाऽमुं स सादरम् । ब्रूहि सत्यं त्वमेतस्य, कारणं सशयापहम् ॥१०६॥ धर्माग्रहं तथा मत्वा, जिनदासोऽब्रवीदिदम् । अये स्थालीः संगणय्य, मां त्वं पृच्छ महाशय ॥१०७॥ इति तस्य वचः श्रुत्वा, धर्मदासेन सत्वरम् । आहूय किङ्करः पुष्टः, किं स्थाल्यो गणिता न वा ? ॥१०८॥ प्रत्युवाच ततो भृत्यः, स्थाल्यो नो गणिता मया । विनैव गणनां नाथ !, स्थूलदृष्ट्या विलोकिताः ॥१०९॥ सन्ति स्थाल्योऽखिलाः किन्तु, न दृष्टा कण्ठखण्डिता । एतावदेव विज्ञाय, मयोक्तं ते तथा तदा ॥११०॥ इदानीं गणितास्ताश्च, सम्पूर्णाः सन्ति पूर्ववत् । आश्चर्य केवलं तत्र, याऽऽसीत् कण्ठखण्डिता ॥१११॥ साऽपि जाता कथं पूर्णा, स्थालीयं शिल्पिना विना । मन्त्रतन्त्रप्रयोगोऽपि, न जातो ज्ञानगोचरः ॥११२॥ (युग्मम् ) श्रीजिनदासश्रेष्ठिकथा