________________
क्रमान्मयि ददाने च मन्दभाग्यस्य दैवतः । जिनदासस्य पुरतः सा स्थाली खण्डिताऽऽगता ॥ ८९ ॥ श्रेष्ठिना चिन्तितं नूनं गृहीता खलु तेन हि । कार्याकार्यविवेको हि, दरिद्रस्य न विद्यते ॥ ९० ॥ सकुटुम्बं तमानेतुं, जिनदासं महाजनम् । धर्मदासोऽतिरुष्टात्मा, प्रेषयामास किङ्करम् ॥९१॥ किङ्करस्य वचः श्रुत्वा, जिनदासोऽतिनिर्भयः । सकुटुम्बस्तदा गत्वा, धर्मदासमवोचतं ॥ ९२॥ किमर्थमहमाहूतः, श्रीमता धर्मवेदिना ? । इति पुष्टः स्पष्टमाह, धर्मदासोऽपि तं प्रति ॥९३॥
"
धर्मशास्त्रे श्रुतं पूर्वं सर्वदेवमयोऽतिथिः । दरिद्रमपि भद्रं त्वां ज्ञात्वाऽथ परमादरात् ॥९४॥ मया सुपात्रबुद्ध्या त्वं, भोजनाय निमन्त्रितः । तथाऽपि त्वं महादुष्टः, शठोऽसीति प्रतीयते ॥ ९५ ॥ भोजनानन्तरं यस्माद् - हेम्नः स्थालीं त्वमग्रहीः । श्रेयस्कामोऽसि चेद्देहि, स्वयमानीय तां मम ॥९६॥ तदोक्तं जिनदासेन, वचो वज्राहतेन च । नाऽग्रहीषं तव स्थालीं, सत्यं सत्यं वदाम्यहम् ॥९७॥ निशम्य तद्वचो धर्मो, धर्मराज इवाऽपरः । क्रोधितस्तमुवाचेत्थं, महाधूर्तोऽसि पापधीः ॥९८॥ न वदिष्यसि सत्यं त्वं, विना ताडनया स्वयम् । इत्युक्त्वा सगलग्राहं, पादाभ्यां तमताऽयत् ॥९९॥ निष्प्राणमिव सोऽकार्षी-ज्जिनदासं निरागसम् । अनुभूय पदाघातं, जिनदासेन चिन्तितम् ॥१००॥
42
विविध हैम रचना समुच्चय