________________
जिनदासकुटुम्बाग्रे, मुक्तास्तास्तेन सादरम् । न जाने कस्य कार्यस्य, भूमिका स्यादियं विधेः ॥७७॥ भवितव्यत्वयोगेन, जिनदासपुरस्तदा । कण्ठेऽधिखण्डिता स्थाली, भोज्ययुक्ता समागता ॥७८॥ तां दृष्ट्वा चिन्तयामास, स्थाल्येषा मम वाऽपरा । विकल्पेन विनिश्चेतुं, जिनदासः प्रचक्रमे ॥७९॥ स्थालीखण्डं तु. निष्कास्य, शिरोवेष्टनकानिजात् । स्थालीखण्डितभागे तु, योजयामास पूर्ववत् ॥८॥ अत्युष्णत्वेन भोज्यानां, द्रवीभूतेन योजितः । स खण्डो जतुना तत्र, यथापूर्वमजायत ॥८१॥ विचारितं तदा तेन, सर्वद्धिर्यदि मे गता । तदाऽनेनाऽल्पखण्डेन, किं भविष्यति मे हितम् ? ॥८२॥ सोऽप्यपैतु यथापूर्वमिति निश्चित्य नाऽग्रहीत् । स्थाल्यां पूर्ववल्लग्नं, स्थालीखण्डं विवेकतः ॥८३॥ विक्रीते गजराजे हि, किं भवेदङ्कशेन वा ? । तस्माज्जीवनभारोऽयं, भाग्याधीनोऽस्तु मेऽखिलः ॥८४॥ गण्यन्तामखिलाः स्थाल्य, इत्युक्तो धर्मकिङ्करः । एकैकतो विना कृत्वा, गणनामेवैवमब्रवीत् ॥८५॥ आसीद् या खण्डकण्ठा, सा स्थाली दृश्यते न हि । तस्य तादृग्वचः श्रुत्वा, धर्मदासो विचक्षणः ॥८६॥ उवाच किङ्करं कस्मै, भोक्तुं स्थाली त्वयाऽर्पिता । पङ्कत्यां कण्ठविदीर्णा सा, संस्मृत्येति निगद्यताम् ॥८७॥ इति पृष्ठः किङ्करोऽसौ, स्मृत्वा तस्मै न्यवेदयत् । अद्याऽऽगतायाऽतिथये, श्रेष्ठिनेर्पितवानहम् ॥८८॥ श्रीजिनदासश्रेष्ठिकथा
41