________________
उभौ शिशू परिश्रान्तौ तयोरेकं शिशुं प्रसूः । श्रेष्ठी चान्यं समारोप्य, स्वं स्वं स्कन्धं प्रजग्मतुः ॥४१॥ अल्पीयसि गते मार्गे, क्षुत्पिपासार्दितौ तौ । क्षुत्पिपासासहिष्णू तौ, ययाचाते स्वभोजनम् ॥४२॥ ताभ्यां भोज्यं प्रदातुं न, समर्थौ दम्पती उभौ । अमन्ददुःखपाथोधौ, सहसैव ममज्जतुः ॥४३॥ मार्गे सुदैवाल्लब्धानि, सुपक्वाम्रफलानि ते । आस्वाद्याऽऽसादितस्वास्थ्याः, प्रचेलुः पुनरग्रतः ॥४४॥ एवं मार्गं च दुःखं च व्यतिक्रम्य पदातयः । स्वकीयदेशान्निरगुः, शनैर्दूरतरं समे ॥ ४५ ॥ अन्नोदकोपभोगो हि, बलीयानिति विश्रुतम् । अदृष्टमश्रुतञ्चैष, देशं नयति देहिनम् ॥ ४६ ॥ विह्वला नीरसगलाः, बुभुक्षाक्षामकुक्षयः । येन केन प्रकारेण पुरं विमलमाययुः ॥४७॥ तत्पुरस्य बहिः श्रेष्ठी, संस्थितः सपरिच्छदः । कथञ्चित् यापयामास, दुर्दैवात् कृच्छ्रजीवनम् ॥४८॥
सार्थवाहश्च तत्राऽऽसीद्, धर्मदासो महोद्यमी । क्रयाणकानि संगृह्य, वाणिज्यार्थं गतः पुरा ॥ ४९ ॥ सिन्धुमार्गेण गच्छन् सन्, रत्नद्वीपादिकस्थलम् । नानाविधानि रत्नानि, सोपार्जयदनाकुलः ॥५०॥
धर्मदासः प्रहृष्टात्मा, भूरिद्रविणलाभतः । अचिरेणैव कालेन, स्वदेशाभिमुखोऽभवत् ॥५१॥
जिनदास धनं यद्य-न्नदीपूरे प्रवाहितम् । धर्मदासेन तत्सर्व - मनायासेन प्रापितम् ॥५२॥
38
विविध हैम रचना समुच्चय