________________
यानि यानि च तस्याऽऽसन्, सारवस्तूनि सद्मनि । पात्रेभ्यस्तानि सर्वाणि, दातुं स समकल्पयत् ॥२९॥ कुर्वन् दानं चकाराऽसौ, दीनानपि महेश्वरान् । निःस्वोऽष्टमेऽहन्यभूच्छेष्ठी शरदीव बलाहकः ॥३०॥ अत्र स्थितिरयोग्येति, निश्चित्य नगराद् बहिः । सकुटुम्बो सरित्तीरे, स स्वप्रासादमासदत् ॥३१॥ रात्रौ मुशलधाराभि-र्मेघोऽवर्षत् समन्ततः । नीरपूरेण जीर्णः स, प्रासादो भुवि संस्रसे ॥३२॥ जीर्णे गृहेऽप्यवस्थानं, न दैवेनाऽनुमन्यते । इत्यारोहत् स नेदिष्ठं, तरुं स्त्रीपुत्रसंयुतः ॥३३॥ स सौधानिस्सरत् सारवस्तुजातेन सङ्कुलात् । स्वर्णस्थालभृतां गोणी, तत्र वीक्ष्य व्यचिन्तयत् ॥३४॥ वारिपूरे समस्तानि, वस्तूनि मम साम्प्रतम् । बहुमूल्यानि गच्छन्ति, चेद् गच्छन्तु समन्ततः ॥३५॥ एतन्मध्यात् कृषेयं चेत्, स्थालमेकं तदा मम । आयतौ स्यात् फलायेति, स्थालं कष्टुं स प्रावृतत् ॥३६॥ किन्त्वन्तरायदोषेण, कृष्टे स्थालेऽपि तत्करे । तत्कण्ठखण्ड एवाऽऽगा-दहो भाग्यविचित्रता ! ॥३७॥ खण्डेनैतेन किं नष्टे, सर्वस्मिन्नपि वस्तुनि ? । गजराजे गते मोहो, धोरणिग्रहणे हि कः ? ॥३८॥ अथवा धारयाम्येतत्, "क्षेपात् संधारणं वरम्" । इति निश्चित्य सोष्णीषे, स्थालखण्डमदो धरत् ॥३९॥ जलेऽथाऽपसृते नद्यास्तेऽवतीर्य महीरुहात् । किंकर्तव्यविमूढाश्च, चेलुरेका दिशम्प्रति ॥४०॥ श्रीजिनदासश्रेष्ठिकथा
37