________________
निशम्य रोदनं तस्याः, श्रेष्ठिना तु विचारितम् । निशीथे करुणारावं, काचिद् रोदिति दुःखतः ॥१७॥ उत्थाप्य योषितं स्वीयां, दीपमादाय तत्र सः । पप्रच्छोपेत्य तत्पार्वे, कस्माद् रोदिषि सुन्दरि ! ॥१८॥ इति पृष्टा तदा देवी, तं श्रेष्ठिनमुवाच सा । विभूतेस्तव वत्साऽह-मधिष्ठात्री सुरीश्वरी ॥१९॥ अवात्सं त्वद्गृहे श्रेष्ठिं-स्त्वद्दानगुणरञ्जिता । गुणानुरागतो बद्धाऽहमद्यावधि निश्चला ॥२०॥ किन्तु सम्प्रति दुर्दैवा-निश्चलाऽपि च चञ्चला । अहं तव गृहादद्य, यियासुः प्रष्टुमागता ॥२१॥ स्नेहबद्धाऽपि हे भद्र !, दैवनद्धा हि साम्प्रतम् । हन्ताऽन्यत्र गमिष्यामि, त्वयाऽऽज्ञा मे प्रदीयताम् ॥२२॥ तस्यास्तद्वचनं श्रुत्वा, स्वस्थः श्रेष्ठी स उक्तवान् । कस्याऽप्येकरसाऽवस्था, दृष्टा लोकेऽथवा श्रुता ? ॥२३॥ तत् त्वं मम गृहाद् देवि !, गच्छ स्वैरमनाकुला । अहं स्वदैवयोगेन, करिष्यामि यथातथम् ॥२४॥ सविता प्रातरुद्याति, सायमस्तं प्रयाति च । पुरुषाः प्रागनेकेऽपि, किं किं दुःखं न लेभिरे ? ॥२५॥ लक्ष्मीदेव्यपि तच्छ्रुत्वा-ऽनुकूलं तमुवाच सा । गुणानुरक्ता सप्ताह-मत्र स्थास्यामि त्वद्गृहे ॥२६॥ इति प्रोच्य श्रियां देव्यां, गतायां स्वीयसद्मनि । प्रातः प्रमुदितस्वान्तः श्रेष्ठ्येवं स व्यचिन्तयत् ! ॥२७॥ यियासुश्चेत् स्वयं लक्ष्मीः, स्नेहबद्धा यदृच्छया । दानमेव वरं मन्ये, तस्याः सदुपयोगकृत् ॥२८॥
विविध हैम रचना समुच्चय
36