________________
श्राद्धाः श्रद्धाघना तत्त्व-श्रवणोत्सुकमानसाः ।। श्रुत्वा मुनिमुखाम्भोजाद्, देशनां ततृपुर्नहि ॥५॥ जिनदासाभिधस्तत्र, श्रेष्ठी धर्मपरायणः । औद्रार्यादिगुणैर्युक्तो, वसति स्माऽऽर्हतः सुधीः ॥६॥ पूजयन् देवमर्हन्तं, सदा सद्भावसुन्दरः । गुरुं शुश्रूषमाणः स, विपुलैरशनादिभिः ॥७॥ वाक्पतेरिव नैपुण्यं, गाम्भीर्यं चाऽम्बुधेरिव । कल्पद्रोरिव दातृत्व-मग्रहीद् यो विवेकवान् ॥८॥ अल्पायासेऽपि प्राग्जन्म-पुण्येन विपुलं धनम् । सोपाय॑ व्यतरत् सप्त-क्षेत्र्यां प्रावृषमेघवत् ॥९॥ कृत्वाऽपि सुमहत्कार्य-मनुत्सेकमनाः सुधीः । नगरे स्व-परेषां स, प्रशंसामसमां ययौ ॥१०॥ पत्नी जिनमतिस्तस्य, शीलाभरणभूषिता । पतिव्रता पतिं स्वीयं, छायेवाऽनुजगाम या ॥११॥ जिनदत्ताभिधों ज्येष्ठः, कनिष्ठो जिनरक्षितः । तयोरभूतां पुत्रौ द्वौ, विनीतौ सरलाशयौ ॥१२॥ दया-दाक्षिण्य-वात्सल्य-गुणरञ्जितमानसः । भूपोऽस्मै नगरप्रेष्ठि-पदं योग्याय दत्तवान् ॥१३॥ स श्रेष्ठी तेन लोकानां, मान्यस्तन्नगरेऽभवत् । तत्कीर्तिरिन्दुकुन्दाभ-धवला दिश आनशे ॥१४॥ सोऽगण्यपुण्ययोगेन, लब्धां लक्ष्मी कृतार्थयन् । सानन्दं सुचिरं कालं, निनाय भूरिभाग्यवान् ॥१५॥ कदाचिद् दैवयोगेन, क्षीणे पुण्ये पुराकृते । प्रारेभे रोदितुं रात्रौ, लक्ष्मीरेत्य महानसे ॥१६॥ श्रीजिनदासश्रेष्ठिकथा
35