________________
स्त्रीचरित्रं नृभाग्यञ्च, भूपचित्तं खलेङ्गितम् । कृपणस्य तथा वित्तं, देवैरपि न लक्ष्यते ॥५३॥ अकस्माद्विपुलामृद्धि-मासाद्याऽतिप्रहर्षितः । महद्धिकश्च सम्पत्त्या, तयाऽयासीत् स्वकं पुरम् ॥५४॥ चिन्तिता धर्मदासेन, प्राप्तद्रव्योपयोगिता । दानभोगविनाशैश्च, लक्ष्मीस्त्रिपथगा यतः ॥५५॥ यथा दानेन सन्तुष्टि-नैवाऽशनेन कर्हिचित् । तदाऽऽमन्त्र्य जनाः सर्वे, भोजनीया प्रयत्नतः ॥५६॥ निर्माप्य मधुराहारान्, नानाव्यञ्चनसंयुतान् । स भोजयितुमारेभे, सर्वान् नागरिकान् जनान् ॥५७॥ तदानीमखिलग्रामः, सार्थवाहेन भोजितः । जिनदासमृते ग्रामात्, सकुटुम्बं बहिः स्थितम् ॥५८॥ नाऽन्नेऽन्यस्मिन् कुतो लब्धा-श्चणकानेव केवलान् । चर्वयन्तोऽम्बुहारीभि- रीभिस्ते निरीक्षिताः ॥५९॥ विलोक्य तास्तदा ताँस्तु, प्रेम्णोचुर्भो महाशयाः ! । धर्मदासकृते भोज्ये, नाना भोज्यानि चक्रिरे ॥६०॥ भुङ्ग्ध्वं तत्र प्रपद्याऽऽशु, यथेच्छं स्वादु भोजनम् । सुलभे स्वादुसिष्टान्ने, किं वश्चणकचर्वणम् ? ॥६१॥ समाकर्ण्य वचस्तासां, जिनदासप्रियाऽवदत् । अनुद्विग्ना सङ्कटेऽपि, परसौख्यानपेक्षिणी ॥६२॥ अनाहूतैर्न गन्तव्य-मस्माभिस्तत्र खादितुम् । मानिनो हि सुखं प्राणा-नुज्झन्ति न तु मानिताम् ॥६३॥ नाऽपमानात् परं दुःखं, त्रिषु लोकेषु विद्यते । तद् वरं स्वादुभोज्येभ्योऽस्माकं चणकचर्वणम् ॥६४॥ श्रीजिनदासश्रेष्ठिकथा
39