________________
प्रभामण्डलैर्मण्डितं खण्डिताघ, यशःपुञ्जशुभ्रीकृताऽऽशाकदम्बम् । स्तुवेऽनन्यसवृत्तविस्मापितज्ञं, तपागच्छसंरक्षकं माणिभद्रम् ॥४॥
श्रयेद् भाविको कोऽपि यो यं प्रमोदाद्, भवेद् रोगशोकादिदुःखं न तस्य । तथा साऽऽप्नुयाद् वाञ्छितं, संस्तुवे तं,
तपागच्छसंरक्षकं माणिभद्रम् ॥५॥ विशुद्धात्मभावेन शत्रुञ्जयादि, व्रजन् यो हि मार्गे च कुर्वन्ननीकम् । विपद्याऽऽप नाकं स्तुवे भक्तितस्तं, तपागच्छसंरक्षकं माणिभद्रम् ॥६॥
न दास्यं न जाड्यं न तस्याऽर्थकार्य, न चाऽनिष्टसंयोगजन्यादिदुःखम् । स्मरेद् यो हि विश्रब्धचित्तेन नित्यं,
तपागच्छसंरक्षकं माणिभद्रम् ॥७॥ धनाद्यर्जितुं देशदेशान्तरेषु, जना बम्भ्रमन्तीति चित्रं महन्मे । पुरस्थं सुरनुं न पश्यन्ति साक्षात्, तपागच्छसंरक्षकं माणिभद्रम् ॥८॥
श्रीदेवसूरिशिष्येण, हेमचन्द्रेण सूरिणा । अष्टकं यक्षराजस्य, रचितं श्रेयसेऽस्तु वः॥९॥
32
विविध हैम रचना समुच्चय