________________
१५. श्रीसरस्वतीस्तोत्रम् (रचना सं. २०४२)
(वैतालीयवृत्तम् ) शरदिन्दुमनोहराननां, जिनवक्त्राम्बुजवासिनीं मुदा । मतिदां जडतापहारिणी, श्रुतदेवीं समुपास्महेऽमलाम् ॥१॥ जडधीरपि ते प्रसादतः, श्रुतदेवि ! स्फुरदच्छधीधनः । समवाप्य तटं श्रुताम्बुधे-श्चकितां राजसभां करोत्यहो ! ॥२॥ विनयावनतोत्तमाङ्गकः, परयाऽऽयोज्य मुदा कराम्बुजौ । शुचिभक्तितरङ्गरङ्गितः, समुपासे श्रुतदां सरस्वतीम् ॥३॥ सुरदानवमानवेश्वरा-स्तव लब्धं हि कृपालवं गिरे ! । परिहाय निजां निजां क्रियां, तव नामाक्षरमारटन्त्यरम् ॥४॥ विधु-कुन्द-तुषारनिर्मलां, तव मूर्ति परितः प्रभास्वराम् । सितपुष्करसंस्थितां वरां, भुवि माद्यन्ति निरीक्ष्य के न हि ? ॥५॥ करसंस्थितवारिवज्जग-निखिलं यत्कृपया विलोकते । जडधीरपि सा सरस्वती, मतिमालिन्यमपाकरोतु मे ॥६॥ तरसा जडताम्बुधिं हि ते, समवाप्याऽच्छप्रसादसत्तरीम् । लसदुल्बणवाग्विभूषणा, नियतं वाणि ! तरन्ति मानवाः ॥७॥ न च तस्य कदाऽप्यसम्भवि, विबुधत्वं च कवित्वमत्र कौ । सकलार्थितकामगौः पतेत्, तव यस्योपरि दृक् प्रसादिता ॥८॥ नमनं तव पादयोर्मम, स्तवनं चाऽपि भवत्वनारतम् ।। नमनात् स्तवनाच्च भारति !, विमला मे मतिरस्तु सर्वदा ॥९॥ अयि देवि ! किमप्यहं परं, न हि याचे तव संस्तुतेः फलम् । इयदेव तवाऽग्रतो ब्रुवे, न कदाऽपि त्यज सन्निधिं मम ॥१०॥ इति भक्तिभृतेन चेतसा, गुरुदेवक्रमपद्मसेविना । बुधहेमसुधांशुना स्तुता, मतिदा भावपुरेऽस्तु भारती ॥११॥
श्रीसरस्वतीस्तोत्रम्
33