________________
तपागच्छाधिष्ठायक
१४. श्रीमाणिभद्रयक्षराजस्तुत्यष्टकम् ॥
'भुजङ्गप्रयातम्' यदीयप्रभावान्नृणां भक्तिभाजां, फलन्ति ध्रुवं सर्वहृत्कामितानि । सदा तं स्तुवे यक्षराजं सुभक्त्या,
तपागच्छसंरक्षकं माणिभद्रम् ॥१॥ मुधा भ्राम्यथेतस्ततः किं मनुष्याः ।, निजेष्टार्थसंसाधनार्थं पृथिव्याम् । श्रयध्वं लसद्भावभक्त्या श्रयध्वं, तपागच्छसंरक्षकं माणिभद्रम् ॥२॥
अवाप्यैव कार्याण्यशक्यानि यस्य, सहायं स्म सूरीश्वराः साधयन्ति । स्तवीमः सदा तं प्रभावासमानं, तपागच्छसंरक्षकं माणिभद्रम् ॥३॥
श्रीमाणिभद्रयक्षराजस्तुत्यष्टकम्
31