________________
'अभवन्ननु जातमात्रतो,
भवतश्चाऽभिरतं मनो वृषे । नियतं कृतपुण्यकर्मणां, प्रभवत्येव शुभायती रतिः ॥५॥
सुकृतात् सुखिनः सदाऽङ्गिनः, कलुषाद् दुःखपराश्च जन्मिनः । इति वीक्ष्य भवान् भवच्छिदे,
विरतिं यौवनतो गृहीतवान् ॥६॥ चरणाम्बुजसेवनाच्चिरं, समसिद्धान्तविमर्शपारिणः । विजयान्वितनेमिसद्गुरोः, समलब्ध श्रुतमिष्टसाधकम् ॥७॥
विहरन् विविधं पुरादिकं, वरकल्याणपरायणो भवान् । जिनधर्ममुपादिशज्जनान्,
परमानन्दपदैककारणम् ॥८॥ सुर-गुर्जरवाचि बोधदाः, व्यतनोत् काव्यततीः शुभाः कृतीः । बुधशिष्यगणैः सुसेवितो, जयतात्सूरिवरः क्षमातले ॥९॥
रचितेति गुणस्तुतिर्मया, शुभभक्त्युल्लसितात्मवृत्तिना । गुरुदेवपदाम्बुजालिना, बुधतातान्तिमहेमसाधुना ॥१०॥ (रचना - सं. २०१९)
30
विविध हैम रचना समुच्चय