________________
१३. आचार्यवर्यश्रीविजयामृतसूरीश्वराणां
स्तवनाष्टकम् ॥
(वैतालीयं-वृत्तम्) महनीयगुणालिमन्दिरं, कविरलं प्रगुरुं गुरूदयम् । विजयामृतसूरिशेखरं, सततं शास्त्रविशारदं स्तुवे ॥१॥
भवतो भवभाववेदिनो, विदिताचारविचारचारिणः । लसदद्भुतवाग्विलासिनः,
पुरतः किं किल कथ्यते मया ॥२॥ भवतः क्व गुणाकरो महान्, क्व च मे स्वल्पतरा हि शेमुषी । व्यवसाययतीह भास्वरा, गुरुभक्तिः स्तवने तथाऽपि माम् ॥३॥
समुपार्जितपूर्वपुण्यतः, पविते जैनकुले सुधार्मिके । नगरे +बहुतादनामके,
भवतोऽभूज्जननं वृषावहम् ॥४॥ + बोटाद । आचार्यवर्य्यश्रीविजयामृतसूरीश्वराणां स्तवनाष्टकम्
29