________________
तिग्मद्युतिर्न स निवारयितुं शशाक, लोकप्रकाशकसहस्त्रकरैस्तमो यत् । तज्ज्ञानदिव्यविभया सकलं निरस्तं,
यैस्ते महाव्रतधराः श्रमणा जयन्तु ॥१२॥ श्रामण्यमिष्टजनकं प्रतिरुद्धपापं, लोकोत्तरं शिवमवाप्तुमना यतेत । यत्नं विना भववने निबिडे च देही, बम्भ्रम्यतेऽनवरतं समुपैति दुःखम् ॥१३॥
सन्तोषिणोऽनुपमसौख्यमुपेयिवांसो, नम्रा मृदुत्वकलिताः सरलाः पवित्राः । सत्यव्रता भवभयानि विनोदयन्तो,
राजन्तु भूमिवलयेषु तपस्विनस्ते ॥१४॥ सद्दर्शनोदयकरो बुधनन्दनोऽपि, विज्ञानपद्मसविताऽमृतवाग्विलासः । लावण्य-धाम-विजितेन्दुरविं न नौति, कस्तूररम्यवचसं गुरुनेमिसूरिम् ॥१५॥
पुण्यं स्तवं शिवकरं श्रमणोत्तमानां, श्रीनेमिसूरिविजयामृतदेवशिष्यः । पंन्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥१६॥ (रचना : सं. २०१५)
24
विविध हैम रचना समुच्चय