________________
११. आचार्यप्रवरश्रीहरिभद्रसूरीश्वराणां
स्तवनाष्टकम् ॥
(वंशस्थवृत्तम्) अपारशास्त्रोदधिपारदृश्वने, विशुद्धचारित्रतपोविराजिने । दिगन्तसञ्चारियशोविशालिने, नमो नमः श्रीहरिभद्रसूरये ॥१॥
स चित्रकूटाचलनामकं पुरं, पवित्रयामास निजेन जन्मना । अभूद् द्विजातिप्रवरो य इद्धधी
नमोऽस्तु तस्मै हरिभद्रसूरये ॥२॥ पुरोहितस्थानमलञ्चकार यो, यशोधनश्रीजितशत्रुभूपतेः । विवेद विद्याश्च चतुर्दशाऽपि यो, नमोऽस्तु तस्मै हरिभद्रसूरये ॥३॥
• वि.सं. २०१९ वर्षे विरचितम् ॥ आचार्यप्रवर श्रीहरिभद्रसूरीश्वराणां स्तवनाष्टकम्
25