________________
५. ॥ श्रीचिन्तामणिपार्श्वनाथस्तो स्फुरत्प्रभावोज्ज्वलिताननाब्जं,
ध्यानाग्निभस्मीकृतकर्मकाष्ठम् । सदोदितं कान्तगुणाभिरामं
चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥१॥ उपजातिः कल्पद्रुवत्प्रीणितविश्वविश्वा
स्तेजस्विनो दिव्यसुखैकलीनाः । देवाः सदा यत्पदमानमन्ति,
चिन्तामणि पार्श्वजिनन्तमीडे ॥२॥ धर्मं वरेण्यं प्रतिपाद्य यो हि,
भवोदधेर्भव्यजनं ततार । तं नौमि निष्कारणविश्वबन्धुं,
चिन्तामणिं पार्श्वजिनेन्द्रदेवम् ॥३॥ यदीयपादाम्बुजसेवनेन,
पापानि नश्यन्ति पुरार्जितानि ।। भाग्योदयो विस्मयकृच्च वर्द्धते,
__ चिन्तामणिं पार्श्वजिनन्तमीडे ॥४॥ मोहान्धहृद् वन्द्यतमाघ्रिपद्यं,
स्वतेजसा निर्जितसोममित्रम् । जघन्यतः कोटिसुरैनिषेव्यं,
चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥५॥ परिशिष्ट विभाग
313