________________
प्रसादतो यस्य पलायतेऽसुखं,
प्रजायते मङ्गलसौख्यसन्ततिः । सर्वेष्टदं 'साभ्रमती' विभूषणं,
चिन्तामणिं पार्श्वजिनन्तमाश्रये ॥६॥ वंशस्थः यन्मूर्तिरिन्दुर्दुरितप्रणाशिनी,
सद्भक्तिर्माच्चत्तचकोरहारिणी । श्रेयस्करी चारूसुधाभिवर्षिणी,
चिन्तामणि पार्श्वजिनन्तमाश्रये ॥७॥ वंशस्थः यज्ज्ञानगोभिरतुलं प्रसृतं जगत्यां,
जाड्यन्तमो दिनकरेण यथा निरस्तम् । लोकाग्रमव्ययपरम्पदमभ्युपेतं,
चिन्तामणि भजत भव्यजनास्तमीडयम् ॥८॥ वसन्त. ग्रहाभ्रखाक्षिप्रमितेऽथ वर्षे, (२००९)
मार्गे च मासे दशमीसुतिथ्यां, जाता यदीया प्रवरा प्रतिष्ठा, . चिन्तामणिं पार्श्वजिनन्तमीडे ॥९॥ इत्थं हि चिन्तामणिपार्श्वनाथ
स्तोत्रं मनोज्ञं कृतवान् सुभक्त्या । श्रीनेमिसूरेरमृतस्तदीय
देवस्य शिष्यो मुनि हेमचन्द्रः ॥१०॥ विराजतां पाठकपुङ्गवः स,
स्याद्वादसद्दर्शनतत्त्वविज्ञः । श्रीमेरुनामा हितकृत्यरक्तो,
यत्प्रेरितः स्तोत्रमिदं व्यधत्त ॥११॥
(रचना : सं. २०१८ - साबरमती)
314
विविध हैम रचना समुच्चय