________________
16
जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव ॥ २१ ॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वद्दर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे । जातञ्च सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाऽस्त्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तर्ज्योतिः, परमानन्दश्च सम्प्राप्तः ॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुस्तव, समागमो यस्य मे जातः ॥ २५ ॥ इति देवोऽर्हन्नीतः स्तृतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया मृतदेवपदाब्जभृङ्गेण ॥२६॥
,
( रचना
-
सं. २०२८)
विविध हैम रचना समुच्चय