________________
भीमभवाब्धेरस्मात्, त्वया विभो ! तारिता जना नैके । मम तारणवेलाया - मद्यैव किं विलम्बयसि ॥ ९ ॥
तत्र विलम्बे हेतु यदि जिन ! तादृक्षयोग्यताविरहः । त्वदधीनैव हि सा खलु तत्तां मे देहि कृपयेश ! ॥१०॥
*
संसारसागरं त्वं, येनोपायेन नाथ ! सन्तीर्णः । कृपया तं मे दर्शय, येन भवेयं तवानुचरः ॥११॥ त्वादृशि सत्यपि नाथे, मे नश्येच्चेन्न भावदारिद्र्यम् । ब्रूहि तदा कस्याऽग्रे, नाथाऽहं पूत्करोम्युच्चैः ॥ १२ ॥ त्वं चेन्निजहृदये मां, दधासि नो नाथ वीतरागत्वात् । हृदये मम किं वासं, तथाऽपि जिनराज ! नाऽऽश्रयसे ॥१३॥ आवां भवेऽत्र भगवन् ! चिरमेकत्र सहवासमध्युषितौ । अशिवे मां मुक्त्वा किं, शिवं प्रयातो ? न तद्युक्तम् ॥१४॥ अथ मां नाथ ! निभालय, प्रसादपूर्णेन चक्षुषा दासम् । कृतमागोऽद्यावधि यत्, क्षमस्व तत्सर्वमपि देव ! ॥ १५ ॥ त्वयि विश्वस्य शरण्ये, प्रारब्ध: शिवपुरप्रवासोऽयम् । पन्थानमर्धमाप्तं, मामथ किमुपेक्षसे नाथ ! ॥ १६ ॥ सिंह इव मे वसेच्चेद् - हृद्गिरिकुहरे निरन्तरं देव ! । न तदा कुमतमतङ्गज-यूथभयं स्वल्पमपि मे स्यात् ॥१७॥ प्रभवतु मुक्तिर्वा मा, भवतु सदा त्वत्पदाब्जसेवैव । सा चेन्निश्चलभावा, भवेत्तदा नाऽन्यदवशिष्टम् ॥१८॥ जन्मेदं मम सफलं, स्वामिन् ! जज्ञे त्वदीयदर्शनतः । आमोक्षं तत्प्रतिभव - मस्त्विति विज्ञप्यते नितराम् ॥१९॥
एतत्प्रार्थनमनिशं भूयो भूयो विधीयते नाथ ! । त्वच्चरणाम्बुजयमले श्लिष्यतु मे भृङ्गवच्चेतः ॥२०॥
आर्या-पञ्चविंशतिका (परमात्म-प्रार्थना )
"
15