________________
A
६. ॥ आर्या-पञ्चविंशतिका ॥ (परमात्म-प्रार्थना)
- आचार्यविजयहेमचन्द्रसूरिः
अहूँ - पदकजममलं, न्यक्कृतसुररत्नकामघटकल्पम् । मम हृत्सरसि विनिद्रं, वितरतु लक्ष्मीमनाबाधाम् ॥१॥ भ्रामं भ्रामं भगवन् ! भवेष्वनेकेषु दुःखबहुलेषु । अद्य मया त्वं लब्धः, प्राक्तनपुण्यप्रकर्षेण ॥२॥ अयि जगदीश्वर ! जय जय, जय जय दुरिताब्धिशोषणागस्ते!! संसारामयधन्वन्तरि-सन्निभ ! सर्वदा जयतात् ॥३॥ नास्ति जिनेश्वर ! तव गुण-कवने स्वल्पाऽपि मे प्रभो ! शक्तिः। शिशुरिव तदपि गुणांस्ते, गातुं भक्त्योद्यतो भगवन् ! ॥४॥ प्राप्ता चेत्तव पदयो-भक्तिर्भगवन् ! तदाऽन्यदाप्यं किम् ?। तामन्तरेण लब्धं, व्यर्थमिदं निखिलमपि भुवनम् ॥५॥ परितो दुःखदवानल-दग्धमशरणं समस्तमस्ति जगत् । शमयितुं तं समर्थो, नाथ ! त्वं पुष्करावर्तः ॥६॥ प्राप्याऽपि त्वच्छासन-मच्छं भगवन् ! प्रमादपरतन्त्राः । वर्तामहे न मार्गे, यथोदिते तन्महद् दुःखम् ॥७॥ विद्याऽभ्यस्ताऽधिगता, कीर्तिः प्राप्ता च विश्रुतिर्विश्वे । नो चेच्चेतः शुद्धि-जनितैताभिः किमफलाभिः ॥८॥
14
विविध हैम रचना समुच्चय