________________
७. श्री गौतमस्वामि-स्तुति - षोडशिका
,
सुवर्ण - पद्मासन - संनिषण्णं, स्फुरत्प्रभामण्डलभासमानम् । देवेन्द्रवृन्दार्चितपादपद्मं श्रीगौतमं सत्तममानमामि ॥१॥
(उपजाति-वृत्तम्)
?
- आचार्यविजयहेमचन्द्रसूरिः
ग्रामः पवित्रः खलु गोब्बराऽऽह्वः, पुण्या च पृथ्वीजननी नितान्तम् । तातोऽपि धन्यो वसुभूतिनामा, यत्राऽजनि श्रीगुरुगौतमोऽयम् ॥२॥ यदीयलोकोत्तरसद्गुणानां पारं न प्राप्नोति गुरुः कदापि । द्विजान्वयेन्दुर्गुणरत्नसिन्धुः, स राजतां गौतमयोगिराजः ॥३॥ वीरप्रभोराद्यगणाधिपो यो, भव्याम्बुजोद्बोधनतिग्मरश्मिः । समीप्सितार्थप्रददर्शनोऽसौ विराजतां गौतमयोगिराजः ॥४॥ यो बीजबुद्ध्या रचयाञ्चकार, सद्द्द्वादशाङ्गीं भुवनोपकृत्यै । मुहूर्त्तमात्रेण पदत्रयेण तमिन्द्रभूतिं प्रणमामि कामम् ॥५॥ स्वशक्तितोऽष्टापदपर्वते यो, जगाम नन्तुं जिनराजपादान् । भव्यात्मनां कामितकल्पवृक्षः, स राजतां गौतमयोगिराजः ॥६॥
श्री गौतमस्वामि- स्तुति - षोडशिका
?
,
17