________________
५. श्री कदम्बगिरेर्माहात्म्यम्-अज्ञातकर्तृकम् ।
- आचार्यविजयहेमचन्द्रसूरिद्वारा प्राप्तम् कदम्बगिरिमाहात्म्यं वर्णयामि स्वशक्तितः । तथा शत्रुञ्जयस्नान-महिमानमनुत्तमम् ॥१॥ सुदुस्तरे कलियुगे पञ्चमारेऽपि सम्प्रति । मनुष्याः पापकर्माणो रागद्वेषसमाकुलाः ॥२॥ प्रतिधर्ममविश्वस्ताः कुतर्का नास्तिका जनाः । पाखण्डधर्मनिरता देवधर्मविनिन्दकाः ॥३॥ गुरुमानमकुर्वन्तः पतन्ति नरकेऽशुचौ । मातृपितृगुरुभक्ति-रहिताः सकला जनाः ॥४॥ गुरुविद्वेषमिच्छन्ति धनमानमदान्विताः । स्तब्धा दुर्व्यसनासक्ताः पुत्रस्त्रीद्रव्यलालसाः ॥५॥ अहं-ममेत्यभिहताः सच्छासनपराङ्मुखाः । अन्योऽन्यं द्वेषकर्तारः सतां दुःखप्रदायकाः ॥६॥ इति दोषविभेदेन पतन्ति नरकेऽशुचौ ।
जिनशासनभक्तिवत्सलतया कृपालुना शासनाधिष्ठायकेन विचारितं स्वमनसि यद्येते उपरि वर्णिता महापापिजना भगवद्विमुखा भूत्वा स्वेनैव दोषेण नरके पतिष्यन्ति तन्मम शासनाधिष्ठायकताया किं महत्त्वं यद्येतेषां महापापिनामपि पतितपावनपरमात्मश्रीकदम्बगिरेर्माहात्म्यम्
11