________________
सांमुख्यं प्रापय्योद्धारं करिष्यामि - इति ममाऽधिष्ठायक भावस्य साफल्यम्, अतस्तेषामुद्धारम्प्रति मया दयालुता कर्तव्या । केनोपायेन तेषां रक्षणं कार्यमिति क्षणमात्रं ध्यात्वा स्वतो भूमेरधस्तात् पाताले पापिनां पतनाय नारकलोको वर्तते, तस्मिंस्तामिस्त्रान्धतामिस्ररौरवाद्याः शतशो नरकावासाः पापानां शिक्षार्थं सन्ति । यत्र परमधार्मिकपराधीनाः सर्वे पापिनः स्वकर्मफलदुःखं भुञ्जानाः सन्तः पश्चात्तापं प्रकुर्वन्ति प्रभो ! मया किं कृतम् यदेतादृशं दुःखं प्राप्नोमीत्यादि । तत्राऽपि दक्षिणस्यां दिशि बहुपापिनो जीवाः, तत्पापिनामुत्तरणार्थमेव लोकानुभावेन तत्रैव दक्षिणस्यां दिशि भूम्यां श्रीकदम्बगिरिः स्थापित इव लक्ष्यते । यस्य दर्शनेनैव महापापिनामपि पापनाशो भविष्यति । श्रीशत्रुञ्जयतले च वहन्त्यां शत्रुञ्जयनद्यां स्नात्वा शुद्धान्तःकरणाः सन्तस्ते महापापिनोऽपि पापरहिता भविष्यन्ति । उक्तञ्च -
12
-
दक्षिणस्यां च काष्ठायां कदम्बाख्यो गिरिर्महान् । यस्य संदर्शनेनैव शुद्धयन्ति पापिनो जनाः ॥१ ॥ तस्मात् पापप्रणाशाय नरकोत्तरणाय च । कदम्बाख्यगिरेर्यात्रा कर्तव्या पापभीरुभिः ॥२॥
यत्रैकदर्शनादेव क्षीयन्ते पापराशयः । शुद्धान्तःकरणा भूत्वा मोदन्ते दिवि देववत् ॥३॥
शत्रुञ्जया नदी यत्र स्नात्वा देवं प्रपूजयेत् । दत्त्वा दानञ्च विधिवन्मानुष्यं सफलं कुरु ॥४॥ नेमिसूरिं गुरुं नत्वा तदाज्ञापरिपालकः । सर्वस्वं गुरवे दत्त्वा न पुनर्मानुषो भवेत् ॥५॥ प्रतिष्ठां मन्दिरं कृत्वा तथा यात्रामहोत्सवान् । स्ववित्तं शुभमार्गेण व्ययं नीत्वा सुखीभव ॥ ६ ॥
विविध हैम रचना समुच्चय