________________
तदानीं नैके विद्वांसः पूज्यशासनसम्राड् गुरुभगवतां पार्श्वे शिष्याणामध्यापनं कुर्वन्तोऽतिष्ठन् । कस्मिन्नपि समये वर्षावासे शेषकालेऽपि वा कोऽपि विद्वान् तेषां समीपे आगच्छेत् तदा ते हि पूज्यास्तं निजपार्श्वेऽध्यापनाय रक्षन्ति स्म । 'अधुनाऽस्मत्पार्श्वे बहवोऽध्यापयितारो विपश्चितः सन्ति, अत आवश्यकता न विद्यते' इति तु ते हि पूज्या न कदाऽपि कथयामासुः ।
तदानीं सर्वत्रैतादृशी लोकोक्तिः प्रचलिताऽऽसीद् यत् पूज्य - शासनसम्राड्-गुरुभगवतां समीपे आगताः पण्डितास्तथा च प्रतिमा आदायाऽऽगता मूर्तिनिर्मातारो नैव कदाऽप्येवमेव रिक्तपाणयः पश्चाद् वलन्ति, स्वस्थानं गच्छन्ति वा ।
मुनिमेरुविजयाय केनाऽप्यध्ययनविषये किञ्चित् पृष्टम् । तदुत्तरं सम्यग् अददानः स भृशं विषण्णो बाढं रोदितुं लग्नश्च । पूज्यशासन सम्राट् श्रीगुरुभगवता एतज्ज्ञातं, तैस्तमाकार्य प्रेम्णा पृष्टं - "अरे ! तव किं जातं, कथं त्वं रुदन्नासीः, त्वादृशस्यैवं रोदनं किमुचितम् ?" तेन यथास्थितं निवेदितं, तत् श्रुत्वा पूज्यैः कथितम्, स्वस्थो भव, मा रोदी:, त्वं तु बुद्धिशाली परिश्रमशीलश्चाऽसि । कल्यतो मम पार्श्वे - ऽध्ययनायाऽऽगच्छेः । अहं त्वां सम्यक् पाठयिष्यामि ।
श्वोदिने स गतोऽध्ययनाय । पूज्यगुरुभगवद्भिः 'किरातार्जुनीयमहाकाव्यं' पाठयितुं प्रारब्धम् । पूज्यानामध्यापनशैली काऽप्यनिर्वचनीयैवाऽऽसीत् । एकस्मिन् विषयेऽनेकान् विषयान् सङ्कलय्य ते हि यत् पाठयन्त आसन् तत्तु स्वानुभवसंवेद्यमेव । उपर्युपरि वज्रवत् कठोररूपेण दृश्यमाना अपि ते ह्यन्तस्तु शिरीषकुसुमादप्यधिककोमला वात्सल्यसम्भृतमानसाश्चाऽऽसन् ।
निम्नोल्लिखित श्लोकेन नीतिकारेणाऽपि लालने बहवो दोषास्ताडने च बहवो गुणाः निरूपिताः सन्ति
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्रं च शिष्यं च, ताडयेन्न तु लालयेत् ।
254
विविध हैम रचना समुच्चय