________________
साभ्रमतीग्रामे अत्यल्पसङ्ख्यकश्रावकाणां गृहाण्यासन् ! तदा कतिचित् श्रावकाः तत्रत्यश्रावकानेवं कथयामासुः -"अरे भद्रभावाः सुश्रावकाः ! भवद्भिः सम्यक् विचारितमस्ति न वा ? एते तु महान्तो गुरुभगवन्तो विद्यन्ते, धवलगजराजसन्निभानां तेषां सेवां शुश्रूषां भक्तिं च यूयं कथं करिष्यथ ?" । तैः प्रत्युत्तरितम्-"अरे श्रेष्ठिवराः ! यूयं व्यर्थं चिन्तां मा कुरुथ, गुरूणां हार्दिकाशीर्वादाः अस्मदीयशिरस्सु वर्षन्ति, अतो नाऽस्माकं स्वल्पीयस्यपि चिन्ता । वयं तेषां सपरिवाराणां सम्यग्रीत्या सेवां शुश्रूषां भक्तिं चाऽवश्यं करिष्यामः। भवन्तो निश्चिन्ता आसताम् ।" तदन्तरं च तैः श्रावकैर्वर्षावासमध्ये समेषां साधूनां साध्वीनां च प्रबलभावतः पर्याप्तरूपेण भक्तिर्विहिता। तन्निरीक्ष्य राजनगरवास्तव्या नामाङ्किताः श्रेष्ठिप्रवरा आश्चर्यचकिता निम्नाननाश्च सञ्जाताः ।
तस्यां चतुर्मास्यां तेषां पुण्यदर्शनमनेककृत्वः सम्प्राप्तम् ।
समागते च पर्वाधिराजपर्युषणापर्वणि महावीरजन्मवाचनवेलायां प्रयत्नपूर्वकं ते हि गुरुभगवन्त उपरितनमालके व्याख्यानपर्षदि समानीताः । तदानीं पूज्यगुरुभगवन्त भृशमशक्ताः शिथिलशरीराश्चाऽऽसन् । सर्वेषां प्रभूताग्रहतः तैस्तदा यथाकथञ्चित् महावीरजन्मवाचनं कृतमासीत् तत् श्रुत्वा सर्वेऽपि मुदितस्वान्ताः सञ्जाताः । तेषां मध्येऽहमपि एकस्तदाऽऽसम् ।
पूज्यशासनसम्राट श्रीगुरुभगवतां निजप्रशिष्योपरि अपूर्वं वात्सल्यम् :
शासनप्रभावकपूज्याचार्यश्रीमद्विजयमेरुप्रभसूरीश्वराणां वदन कमलतः कतिकृत्वः श्रुतस्तेषां जीवनप्रसङ्गः पूज्यशासनसम्राटसम्बन्धितोऽत्र निर्दिश्यते । प्रायः सप्ताशीत्युत्तर एकोनविंशे वैक्रमे वर्षे श्रीमेरुविजयाभिधानो मुनिमैथिलपण्डितप्रवर-श्रीशशिनाथझाशास्त्रिणां सविधे व्याकरणादिशास्त्राणामध्ययनं कुर्वन्नासीत् । पूज्यपादशासनसम्राट् श्रीपरमगुरुभगवतां प्रथम दर्शनम्
253