________________
अपि च, गुरुपरुषवचनेन तिरस्कृता जना महत्त्वं प्राप्नुवन्तीति वचनं पण्डितराजजगन्नाथेनाऽपि स्वरचितभामिनीविलासे 'गीभि' रिति श्लोकेन समर्थितम् । अयमेवाऽस्ति स श्लोकः
गीभिर्गुरूणां परुषाक्षराभि-स्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलो मणयो विशन्ति ॥
मुनिमेरुविजयः पूज्यशासनसम्राड्गुरुभगवतां सन्निधौ प्रतिदिनं किरातमभ्यस्यमानः कियता कालेन द्वात्रिंशत्तमश्लोकपर्यन्तं पठितवान् । ततो द्वितीयदिने पुस्तकमादाय नियतसमये पूज्यानां समीपे पठनायाऽऽगतं मुनिमेरुविजयं ते हि पूज्याः कथयामासुः - "अथ मम पार्वे पठनाय त्वया नैवाऽऽगन्तव्यम् । अग्रेतनं काव्यं स्वयमेव पठितव्यम् । सर्वेषु विषयेषु तव शेमुष्यस्खलितप्रचारा प्रवर्तिष्यते ।" पूज्यानामेतादृशाशीर्वादस्तेषां खलु जीवने पूर्णरूपेण फलितोऽभवदिति शम् ॥
पूज्यपादशासनसम्राट् श्रीपरमगुरुभगवतां प्रथम दर्शनम्
255