________________
अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम् ॥ -पूज्यपादाचार्यश्रीविजयदेवसूरिश्वराणां शिष्यः
श्रीविजयहेमचन्द्रसूरिः सुरासुरनरेन्द्रसम्पूजितः दिनकर इव भव्यात्मकमलवनं विबोधयन् सुरविरचितनवस्वर्णकमलविन्यस्तपदपङ्कजः करुणावरुणालयो भगवान् वीरवर्धमानः ग्रामानुग्रामं विहरन् सपरिवारः श्रावस्त्यां समवसृतः । तदानीं मंखलिपुत्रः गोशालोऽपि निजानुयायिवर्गसमेतः तत्र पुर्यां हालाहलकुम्भकारशालायामवस्थितः । प्राकृतजनैः न हि केवलं दुरनुष्ठेयमपि तु दुश्चिन्तनीयं षष्ठषष्ठेन तपःकर्म कुर्वन् गणभृद् श्रीगौतमस्वामी श्रावस्त्यां भिक्षार्थं गच्छन् प्रतिगृहं चय॑माणां वार्तामिमामशृणोत्-यत्, सम्प्रति श्रावस्त्यां द्वौ जिनौ विहरत इति ।
तां श्रुत्वा श्रीगौतमः प्रभुवीरसमीपे समागत्याऽपृच्छत् । भगवन् ! नगरे सर्वे जनाः परस्परं वार्तयन्ति यत्-अस्माकं नगर्यामधुना द्वौ जिनौ विहरत इति किमत्र तत्त्वम् ?
भगवता कथितम् - गौतम ! न ह्येतत् सत्यम्, अयं तु मंखलिपुत्रः गोशालः अस्माकं शिष्याभासः अजिनोऽपि स्वं जिनं ख्यापयन्नत्रा
प्रसङ्गाः अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम्
247