________________
ऽऽगतोऽस्ति । ततः कर्णोपकर्णतः वार्तामिमां श्रुत्वा परिकुपितः गोशालः गोचरचर्यागतमानन्दनामकं भगवच्छिष्यं जगाद - भो आनन्द ! कीदृशः खलु तव धर्माचार्यः एतावत्या पर्षदाऽपि अपरितुष्टः मम कृते यद्वा तद्वा प्रलपति । ततोऽहं तत्राऽऽगच्छामि, यदि स मां सम्यक् न प्रतिचरिष्यति तर्हि तं तेजसा धक्ष्यामि । गोशालवचनं श्रुत्वा भयभीतः आनन्दः त्वरितत्वरितं भगवत्समीपे समागत्य तस्मै यथावस्थितं न्यवेदयत् । भगवता कथितम्-भो आनन्द ! त्वं शीघ्रं गौतमादीन् मुनीन् कथय, यदेष गोशालः समागच्छति, सर्वेऽपि साधवः इतस्ततः अपसरन्तु, केनाऽपि तस्योत्तरो न देयः।
तावताऽऽगतः गोशालः, रोषारुणनेत्रः भगवन्तमधिक्षिपन्नवोचत्-भो काश्यप ! किमिदं मम कृते उन्मत्तप्रलापवत् वक्षि, यदयं गोशालः मंखलिपुत्रोऽस्तीति, नाहं गोशालः, अहं तु कोऽप्यन्य एव, परीपहोपसर्गसहं तच्छरीरं विज्ञाय तदध्यास्य स्थितोऽस्मि । तव शिष्यः गोशालस्तु कदापि मृत एव ।
तदा भगवता कथितम्, सत्यं त्वं गोशाल एवाऽसि, मुधा किमात्मानमपनुषे । यथाऽऽरक्षकदृष्टिपतितः कश्चिच्चौरः तृणाद्याच्छादनेन स्वपह्नोतुं नैव समर्थो भवति, तथैव त्वमपि मिथ्याप्रलापेन स्वात्मानमपलपितुं कथं शक्तो भविष्यसि ? ।
तदा भगवद्वचनेन स गोशालः भृशं परिकुपितः । तस्मिन् समये भगवदबहुमानेन परखिन्नौ सर्वानुभूति-सुनक्षत्रनामानौ भगवच्छिष्यौ गोशालकोपकटुविपाकं जानन्तावपि जीवितं तृणवद् गणयन्तौ तमधिक्षिपतः स्म । तस्मिन्नेव क्षणे गोशालमुक्ततेजोलेश्यया दग्धौ तौ समाधिभावेन कालं कृत्वा एकः सहस्रारकल्पे, अपरश्च अच्युतकल्पे समुत्पन्नौ । एतावताऽपि अनुपशान्तकोपानलः गोशालः अविचार्य निजाधमकर्तव्यविरसपरिणामं भगवदुपर्यपि तेजोलेश्यां मुक्तवान् । तीर्थकरातिशयेन अङ्गबङ्गादिषोडशदेशदहनसमर्थाऽपि सा भगवतः किमपि विप्रियं कर्तुं न शशाक । प्रत्युत
विविध हैम रचना समुच्चय
248