________________
तेजोमण्डलवलयितमासीत् । औषधादिकं गृहीत्वाऽल्पं किञ्चद् भुक्त्वा च ते स्वस्थतया स्वीयासनोपरि समुपविष्टा आसन् । बहव आचार्या मुनयः साध्व्यः श्रावकादयश्च तान् वन्दितुमुपस्थिताः । सर्वेऽप्यागत्य तान् नमस्कारमहामन्त्रं श्रावयन्ति स्म । तेऽपि चाऽनिर्वचनीये तत्त्वे दत्तावधाना इव चक्षुषी निमील्य किमपि ध्यायन्तः परमशान्तमुद्रायां विराजमाना आसन् ।
__ तदा चिकित्सकैस्तेषां देहपरीक्षणं कृत्वा कथितं यद्-"अधुना यत्किमपि कर्तव्यमवशिष्टं भवेत् तत् कुर्वन्तु, यतोऽद्य न भूयसी आशा विद्यते" इति । एतन्निशम्य सर्वेऽपि चिन्ताचान्तस्वान्ताः परिम्लानवदना अश्रुपूर्णनयनाश्च सञ्जाताः । नमस्कारमहामन्त्रश्रावणं चाऽस्थगितं वरीवति स्म । आः ! अनभिलषितः क्षण आगतः सः । प्राय एक पञ्चाशदधिकत्रिवादने पूज्यास्तेऽसारं जगद् विनश्वरं च देहं विहायाऽस्मांश्च रुदतो मुक्त्वा स्वर्गातिथ्यं भेजुः । सर्वेऽपि शोकातुराः किंकर्तव्यविमूढाश्च सञ्जाताः सर्वत्र चाऽयं समाचारः प्रसृतः । मुम्बाई-राजनगर-भावनगर-बोटाद-मधुमतीप्रभृतिनगरेभ्यः सौराष्ट्रस्य नैकग्रामेभ्यश्च बहवो जनास्तेषामन्तिमदर्शनार्थं समागताः पादलिप्तपुरे । तेषां पुण्यदेहस्य दर्शनं कृत्वा धन्यम्मन्या जनास्तेषां वियोगेन अथ 'केषां चरणयोर्वन्दनं कृत्वा वयं धर्मोपदेशं श्रोष्यामः ?' इति विचिन्त्य विलपन्ति स्म ।
द्वितीयस्मिन् दिने प्रातः खेदव्याकुलितहृदया निरुत्साहा निरानन्दाश्च सर्वे भक्तजनाः पूज्यगुरूणां पार्थिवदेहं शिबिकायां स्थापयामासुः । ततोऽन्तिममहायात्रा प्रारब्धा । सा च केसरियाजीनगरतो निःसृत्य समग्रेऽपि नगरे परिभ्रम्य पुनस्तत्रैव समागता । तदा जनैरुच्चस्वरेणोच्चारितैः 'जय जय नंदा जय जय भद्दा' इति वचनैः दशाऽपि दिशो बधिरिता इव सञ्जाताः । ततः केसरियाजीनगरपरिसरे एव अमृतपुण्योदयज्ञानशालाया अङ्गणे चन्दकाष्ठरचितायां चितायां शिबिका स्थापिता । तदा अचेतनमपि पूज्यानां शरीरं तादृक् चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
245