________________
भूयानुत्साह आसीत् । किन्तु केनाऽपि कारणेन मृगशीर्षकृष्णत्रयोदशीदिने तेषां शरीरे ज्वरातिरभूत् । तत आरभ्य तेषां शरीरमस्वस्थं सञ्जातम् । इतो नैके आचार्या तेषां सुखसातं प्रष्टुं तैः सह शासनस्य गभीरप्रश्नानां चर्चा-विचारणादि च कर्तुमायान्ति स्म । किन्तु तेषां मनः तादृक् स्वस्थमासीद् यत् केनाऽपि ते रुग्णाः सन्ति इति न ज्ञातम् ।
अथ तेषां शरीरशैथिल्यं ज्ञात्वा आचार्यमहोदयाः श्रीहेमसागरसूरीश्वराः, श्रीभुवनभानुसूरीश्वराः, श्रीशान्तिविमलसूरीश्वराः, श्रीप्रभवचन्द्रसूरीश्वरा अन्ये च बहवः श्रमणाः श्रमण्यः श्रावकाः श्राविकाच तान् वन्दितुं सुखसातापृच्छादि कर्तुं चाऽऽगच्छन्ति स्म ।
ये ये आगच्छन् ते सर्वेऽपि नमस्कारमहामन्त्रं पञ्चसूत्रं पुण्यप्रकाशस्तवनं इत्यादिकानन्तिमाराधनास्वरूपान् स्तोत्रान् तेभ्य श्रावयन्ति स्म । आचार्यश्रीविजयधर्मधुरन्धरसूरीश्वरा अपि तेभ्यः स्वविरचितानि वैराग्यशतकात्मनिन्दाद्वात्रिंशिका-पद्यानि यदा तदा श्रावयन्ति स्म । तानि श्रुत्वा तेऽपि तैः सह तत्पद्यान्युच्चरन्ति स्म ।
यद्यपि शरीरस्वास्थ्यमतीव विघटमानमासीत् तथाऽपि ते पूर्णां स्वस्थतां समाधिभावनां चाऽधारयन् । एतद् दृष्ट्वा जना विस्मिता भवन्तस्तान् प्राशंसयन् ।
"जातस्य हि ध्रुवो मृत्युभ्रुवं जन्म मृतस्य च" इति वचनानुसारेण न हि कस्यचिदपि जन्मधारिणो जगतीह सर्वदा स्थास्तुत्वं सम्भवेत् । तथाऽप्येतादृशां परमोपकारिणां शासनप्रभावकपुरुषाणां स्वर्गमनं सर्वेषां बाढं मनोव्यथाजनकं भवत्येव । पोषशुक्लाया षष्ठ्यास्तिथेस्तद्दिनमासीत् । न केनाऽपि स्वप्नेऽपि विचारितं यदद्य पूज्यसूरीश्वराणामन्तिमो दिनोऽस्तीति । किन्तु अचिन्तितमेव घटयति विधिः । प्रातस्तु तेषां देहे समीचीना स्फूर्तिरासीत् । वदनमपि
विविध हैम रचना समुच्चय
244