________________
खीमशाही भाषान्तरं, प्रतिष्ठा - शान्तिस्नात्रादिविधिसमुच्चयः उन्नतिदर्शनम् - इत्यादयो ग्रन्थास्तैः सम्पादिताः सन्ति ।
श्रीसिद्धगिरिराजच्छायायां स्थिरवासः
पूज्यश्रीसूरीश्वराः स्वजीवनस्य सन्ध्याकाले प्रायः सप्ताष्टौ चतुर्मासी: पादलिप्तपुर एव यापितवन्तः । ते सपरिवारा नयननेत्राकाश-नयन ( २०२२ ) मिते वैक्रमे वर्षे सूर्यपूरे ( सूरतनगरे) चातुर्मास्यं विधाय ततः श्रीझगडीयातीर्थ - षड्-री-पालकसङ्खेन सह विहारं कृत्वा पादलिप्तपुरं समाजग्मुः । तत आरभ्यस्ते प्रायस्तत्रैव स्थिरतां कृतवन्तः । तत्रत्ये स्थिरताकाले प्रतिष्ठाञ्जन- शलाका-दीक्षाबृहद्दीक्षा-पदप्रदान - तीर्थमालादीनि प्रभूतानि सुकार्याणि तेषां पवित्रनिश्रायां सञ्जातानि ।
पूर्वं वर्षत्रयं ते श्रीशत्रुञ्जयविहारे स्थितवन्तस्ततश्च श्रीकेसरियाजीमहाप्रासादसमीपवर्तिन्यां श्रीअमृतपुण्योदयज्ञानशालायां समागताः । तत्पट्टधराचार्य श्रीमद्विजयधुरन्धरसूरीश्वरा अपि तैः सार्धं तत्रैव समातिष्ठन् । अन्तराले एका चतुर्मासी भावनगरे यापिता ।
रसाक्षि-गगन-नयन( २०२६ ) मिते वैक्रमाब्दे वैशाखकृष्णसंप्तमीदिने श्रीकेसरियाजीप्रासादे तेषां शुभनिश्रायां शतचतुष्टयमितानां प्रतिमानामञ्जनशलाकापूर्विका प्रतिष्ठा महतोत्साहेन प्रवरमहोत्सवेन सह भूरितरद्रव्यव्ययेन सञ्जाता । पर: सहस्त्रा जनास्तस्मिन्नुत्सवे समागता अद्वितीयं च तं महोत्सवं निरीक्ष्य कामं मुदितमानसाऽभवन् । तत आरभ्य प्रतिवर्षं प्रतिष्ठाया वार्षिकप्रसङ्गेऽञ्जनशलाकामहोत्सवः समभवत् ।
स्वास्थ्यहानिः स्वर्गगमनं च
अथाऽऽकाश-लोक - गगन - नेत्र ( २०३०)मितं संवत्सरं यावत् ते पूज्याः परं स्वास्थ्यं बिभ्राणा निजसाधनं साधयन्तो भव्यानुपदिशन्तो विराजमाना आसन् । अष्टोत्तरसप्ततिवर्षायुष्यपि तेषां मनसि चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेश:
243