________________
जिनाधीश ! जगन्नाथ !, जगद्धितपरायण ! त्वच्चरणाम्बुजद्वन्द्वे, हृद्भुङ्गो मे निलीयताम् ॥१९॥ सर्वं समीहितं सद्यस्त्वत्सेवातः प्रसिद्धयति । दूरे प्रयाति दुर्भाग्यं, सद्भाग्यं च प्रसर्पति ॥२०॥ सुखदुःखे अविज्ञाय, कृतो यत्नो निरन्तरम् । स सर्वो विफलो जातः, सुखं तत्त्वं निबोधय ॥२१॥ शिरोमणीयते नाथ ! त्वदाज्ञा यस्य जन्मिनः । अपारोऽपि भवाम्भोधिस्तस्येश ! गोष्पदीयते ॥२२॥ भवाब्धौ मज्जतां नाथ !, त्वदाज्ञा ननु नाव्यति । तदाश्रिता जना नूनं, निस्तरन्ति न संशयम् ॥२३॥ भवाब्धौ भ्रमतां नाथ, प्राप्तं यत्तव शासनम् । तेन मन्ये निजं धन्यं, कृतपुण्यं जगत्पते ! ॥२४॥ जगदर्घ्यं जिन ! त्वां ये, नमन्त्येकाग्रमानसाः । ते धन्या वन्दनीयाश्च, पुण्यभाजः सुरैरपि ॥२५॥ भवाटवीभ्रमद्भव्यशुद्धमार्गप्ररूपिणे । करुणाम्भोधये तुभ्यं, नमः श्रीपरमात्मने ॥२६॥ सुरासुरनमस्याय, विश्वानन्दविधायिने । कर्मामयविमुक्ताय नमः श्रीपरमात्मने ॥२७॥ त्वत्समो नाऽपरो दाता, मदन्यो नैव निर्धनः । विधाय करुणां तस्माद्, वाञ्छितार्थं समर्पय ॥२८॥ पुण्यं त्वच्छासनं नाथ ! सर्वसौख्यैककारणम् । कलौ दुरापं सम्प्राप्तं, तद्भाग्यं मे महत्तरम् ॥२९॥ प्रार्थये हे जगद्वन्द्य !, भूयो भूयो दयार्णव !। त्वदीयं शासनं मेऽस्तु, सदा जन्मनि जन्मनि ॥३०॥
परमात्म-प्रार्थना