________________
नेत्रे निमील्य ध्यानैक-चित्तो यावद् विचिन्तये । त्वदन्यस्तारको नाथ ! नास्ति मे भुवनत्रये ॥७॥ निर्गुणोऽपि त्वया स्वामिन् !, तार्यः संसारसागरात् । निर्गुणः सगुणो वेति, महान्तश्चिन्तयन्ति न ॥८॥ धन्योऽहं यन्मया नाथ ! कर्मव्याधिविनाशकः । सच्चिदानन्दसम्पूर्णः, सुकृतादीश ! वीक्षितः ॥९॥ कृतार्थं जीवनं मेऽद्य, सफलं च जनुर्मम । नेत्रे इमे पवित्रे च, यल्लब्धं तव दर्शनम् ॥१०॥ सत्यपि त्वादृशे नाथे, तारके त्रिजगत्पतौ । नो चेद् भवाम्बुधेस्तारस्तत्र किं तव गौरवम् ? ॥११॥ अनेके तारिता नाथ ! जनाः संसारसागरात् । मम तारण एवाऽद्यः कथङ्कारं विलम्बसे ? ॥१२॥ राजसे मुक्तिधाम्नि त्वं, मज्जामीश ! भवाम्बुधौ । महात्मनां न तद्योग्य-माश्रितोपेक्षणं प्रभो ! ॥१३॥ अहर्निशं व्यथन्ते मां, रागद्वेषादयोऽरयः ।। साहाय्यं तद्विधेयं मे, त्वया नाथेन सत्वरम् ॥१४॥ नाथ ! प्रतिप्रदेशं ते, सन्त्यनन्ता गुणा विभो ! । कथमेको गुणस्तेभ्य-स्त्वया मे न वितीर्यते ॥१५॥ अद्य श्वो वा भवाम्भोधे-स्तारकोऽसि त्वमेव मे । कर्तव्येऽवश्यकर्तव्ये, कालक्षेपो न युज्यते ॥१६॥ देवाधिदेव ! सर्वज्ञ !, त्रैलोक्यार्चितपत्कज ! । करुणाम्भोनिधे ! स्वामिन् !, नाथ ! तारय तारय ॥१७॥ अपारेऽस्मिन् भवाम्भोधौ, भ्रान्तोऽनादेरनेहसः । विना त्वां शरणं नास्ति, तन्मां तारय तारय ॥१८॥
विविध हैम रचना समुच्चय