________________
४. परमात्म-प्रार्थना
- आचार्यविजयहेमचन्द्रसूरिः
( द्वात्रिंशिका ) रचना सं. २०२४ अस्मिन् भवाम्बुधौ नाथ !, मज्जतो मे दयानिधे ! । यानपात्रं त्वमेवाऽसि, तस्मात् तारय तारय ॥१॥ त्वया विना न लोकेऽस्मिन् त्राताऽन्यो मम विद्यते । तन्मयि करुणां कृत्वा, नाथ ! तारय तारय ॥२॥ शरण्यं त्वत्पदाम्भोजं, मया नाथ ! समाश्रितम् । नाऽतस्त्वया विधातव्या, मय्युपेक्षा कदाचन ॥३॥ त्वत्पादोपासनेनैव, प्राप्तवानियतीं स्थितिम् । अतो मां तावकं मत्वा, तारयाऽस्माद् भवाम्बुधेः ॥४॥ नश्यन्ति जन्मिनां नाथ ! जन्मकोट्यर्जितान्यपि । पापानि त्वत्प्रसादेन, तमांसीव विवस्वता ॥५॥ त्रिजगज्जन्तुभावाँस्त्वं, जानासीश ! कराम्बुवत् । तदग्रे किं मया वाच्यं, चरित्रं मे त्रपाकरम् ॥६॥ परमात्म-प्रार्थना
7