________________
मुनयो योगोद्वहनं कुर्वन्त्येव । मुनिश्री अमृतविजयेनाऽपि संयमजीवनस्य द्वितीयस्मिन् वर्ष एव श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनं गुरूणां प्रसादतो विहितम् । ततो मुन्यर्षि-तत्त्वशशाङ्क( १९७७)मिते वर्षे श्रीकल्पसूत्र - श्रीमहानिशीथसूत्रयोयगाराधनं कृतम् । ततो यथानुकूलं श्रीसूत्रकृताङ्गसूत्र-श्रीस्थानाङ्गसूत्रश्रीसमवायाङ्गसूत्रादीनां योगाराधनं कृतम् ।
1
अथबाण-मङ्गल-नन्द-विधु ( १९८५ ) मिते वर्षे श्रीमद्गुरुभगवद्भिस्तस्य योग्यतां ज्ञात्वा कृपां विधाय श्रीकदम्बगिरितीर्थे पञ्चमाङ्गश्रीभगवतीसूत्रस्य योगोद्वहनाय समहः प्रवेशः कारितः । अयं हि योगो दीर्घकालिक आगाढोऽत्यन्तं महत्त्वयुतश्च वर्तते । अस्माद् योगात् सुमहति कारणे उपस्थितेऽपि जीवितव्ययेनाऽपि न कदाचिन्निष्क्रान्तव्यम् । तस्मिन् पूर्णीभूत एव ततो निक्षेपः कार्यते । इतो यद्यपि मुनिअमृतविजयस्य स्वास्थ्यं तादृशं समीचीनं नाऽऽसीत् तथाऽपि परमकरुणावतां श्रीदेव- गुरूणां कृपया स्वीयचित्तोत्साहेन च विशेषबाधां विनैव योगाराधनं सानन्दं सम्पन्नम् । ततश्च गुरुभगवद्भिः तस्मिन्नेव वर्षे आषाढशुक्लचतुर्थ्यां मधुमती नगरे तस्मै श्रीभगवतीसूत्रानुज्ञापूर्वं गणिपदप्रदानं विहितम् । तत आषाढशुक्लस्यैवाष्टमीतिथौ तस्मै पत्र्यासपदमपि प्रदत्तम् ।
ख-नन्द-नन्देन्दु( १९९० ) मिते वर्षे गुरुभगवद्भिर्जावालनगरे चातुर्मासीस्थिरता कृता । तदा पन्यास श्रीअमृतविजयेनाऽवशिष्टानामागमसूत्राणां योगोद्वहनं कृत्वा पञ्चचत्वारिंशदागमसूत्राणां योगाराधनं पूर्णीकृतम् ।
ततो अन्यत्र विहृत्यं षड्वर्षानन्तरं चन्द्र-ग्रह- नन्देन्दु( १९९१ ) मिते वर्षे श्रीमद्गुरु भगवन्तः पुनरपि मधुमतीनगरं समाजग्मुः । तदा तत्रैव उपाध्याय श्रीविज्ञानविजयगणये आचार्यपदप्रदानं पन्यासश्रीअमृतविजयगणि-पन्यास श्रीलावण्यविजयगणिभ्यां चोपाध्याय
238
विविध हैम रचना समुच्चय