________________
पदप्रदानं कृतम् । तदवसरे मधुमतीनगरस्थजैनसङ्घन भूरिद्रव्यव्ययपूर्व महामहोत्सवोऽपि विहितः ।
उपाध्यायपदप्राप्त्यनन्तरमाचार्यपदप्राप्त्यवसरस्तु स्तोके नैव कालेन समुपस्थितोऽभवत् । वैक्रमीये नयन-ग्रह-ग्रहार्यम( १९९२) मिते संवत्सरे पूज्यगुरुभगवन्तो राजनगरे विराजमाना आसन् । उपाध्यायश्रीअमृतविजयगणिस्त्वन्यत्र विहरन्नासीत् । तदा गुरुभगवतां हृदि तस्मै आचार्यपदप्रदानस्याऽभिलाषो जातः । अतो भक्तश्रावकान् प्रेषयित्वा "तुभ्यं सूरिपदं दातुकामोऽस्मि, झटिति राजनगरमागच्छ" इति सन्देशः प्रहितः । तं श्रुत्वा सोऽपि “यथा गुरुवर्याणामाज्ञा, आज्ञा गुरूणामविचारणीया" इति प्रत्यत्तुरं दत्त्वा शीघ्रमेव विहारं कृत्वा राजनगरमागच्छत् । राजनगरे तु सूरिपदप्रदानार्थं सर्वमपि सामग्रीजातं सज्जीभूतमेवाऽऽसीत् । ततो भव्यजिनेन्द्रभक्तिमहोत्सवपूर्वकं वैशाखशुक्लचतुर्थीदिने शुभे मुहूर्ते पूज्यगुरुभगवद्भिः स्वकरकुड्मलाभ्यामेव श्रीजेशिंगभाई-श्रेष्ठिनो विशाले वाटिकापरिसरे उपाध्यायश्रीपद्मविजयगणि-पाठकश्रीलावण्यविजयगणिभ्यां सह तस्मै अपि आचार्यपदं प्रदत्तम् । तत्राऽवसरे आचार्यश्रीविजयपद्मसूरये शास्त्रविशारद-कविदिवाकरइति-बिरुदद्वयं, आचार्यश्रीविजयामृतसूरये शास्त्रविशारद-कविरत्नइति-बिरुदद्वयं तथा आचार्यश्रीविजयलावण्यसूरये शास्त्रविशारदकविरत्न-व्याकरणवाचस्पति-इति-बिरुदत्रयं चाऽपि प्रदत्तम् । ततश्च उपाध्यायश्रीअमृतविजयगणिः शास्त्रविशारद-कविरत्न-आचार्यश्रीमद्विजयामृतसूरीत्याह्वया जगति प्रसिद्धोऽभवत् ।
किञ्च पद्मरागमणीनामाकरे पद्मरागस्यैवोत्पत्तिरिव शासनसम्राजां श्रीमद्गुरुभगवतां शिष्यसमुदाये सर्वेऽपि प्रवरगुणगणालङ्कताः श्रमणा अभवन् । गुरुवर्यैः स्वयमेव निजकरकमलाभ्यांयेभ्यः सूरिपदं प्रदत्तं तेषु सप्तसु कश्चिनैयायिकः, कश्चित् सिद्धान्त विशारदः, कश्चित्तु न्याय-व्याकरण-साहित्येषु निष्णातः, कश्चिच्च चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
239