________________
विहिता । अस्यां चतुर्मास्यां तस्य न्यायदर्शनस्या-ऽध्ययनं सञ्जातम् ।
न्यायदर्शनाध्ययनम् न्यायदर्शनस्याऽध्ययनार्थं मतितक्ष्ण्यमपेक्षितम् । न हि तद्विना तत्र प्रवेशोऽपि भवितुमर्हति । नव्यन्यायस्तु इतोऽपि कठिनतरः । बहवोऽभ्यासिनस्तदध्ययनं प्रारभ्य स्तोके नैव कालेन तस्य दुरवगाहित्वं विलोक्य तस्माद् विरता भवन्ति । मुनिअमृतविजये बुद्धितैक्ष्ण्यमनवरतप्रयासो गुरुप्रसादश्चेति त्रयाणां गुणानां विरलः सङ्गम आसीत् । तेन स स्वल्पैरेव प्रयासैर्गहनग्रन्थानामप्यभ्यासाय सिद्धोऽभवत् । - पालीनगरे स मुनिलावण्यविजयेन सह शास्त्रिणां पार्वे न्यायसिद्धान्तमुक्तावल्या अभ्यासमकरोत् । तदा प्रतिदिनं स पञ्जाशच्छ्लोकमितं पाठं शास्त्रिणे श्रावयामास । ततो बाणर्षितत्त्व-मृगाङ्क (१९७५)मिते वर्षे राजनगरे चतुर्मासीस्थिरतायां तेन गुरुभगवतां सविधे किरातार्जुनीयमहाकाव्यमधीतं शास्त्रिसमीपे च सिद्धान्तमुक्तावल्या दिनकरी-रामरुद्रीटीकेऽभ्यस्ते । तदनन्तरं रसर्षि-ग्रह-चन्द्र (१९७६)मिते वर्षे उदयपुरे चतुर्मासी विहिता । तत्र स व्याप्तिपञ्चक सिद्धान्तलक्षण-व्युत्पत्तिवादाभिधानानां ग्रन्थानामध्ययनमकरोत् । तत्राऽपिव्याप्तिपञ्चकं तु अष्टसु दिनेष्वेवाऽधीतं, तच्च सर्वेषां विस्मयकारकं सञ्जातम् । ततो मङ्गलर्षिग्रहेन्दु( १९७८ )मिते वर्षेऽभूच्चातुर्मास्यं स्तम्भनपुरे( खंभातनगरे) । तत्र स न्यायविशारदतार्किकशिरोमणि-पूज्योपाध्यायश्रीयशोविजयवाचकैविरचितं न्याय खण्डनखण्डखाद्याख्यं ग्रन्थं श्रीमदुदयनाचार्यविरचितं न्यायकुसुमाअलिग्रन्थं च समभ्यस्तवान् ।
__ योगोद्वहनं पदप्राप्तिश्च संयमजीवने आगमसूत्राणां पठनार्थं प्रथमं योगेनाऽऽराधनमवश्यकर्तव्यतया प्रतिष्ठापितमस्ति पूर्वाचार्यैः । अतः प्रायः सर्वेऽपि चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
237