________________
शासनसम्राड्गुरुभगवद्भिर्विरचितस्याऽष्टसहस्रश्लोकप्रमाणस्य बृहद् हेमप्रभाव्याकरणस्याऽध्ययनं पण्डितवर्यश्रीशशिनाथ-झा-इत्यभिधशास्त्रिणः सविधे प्रारब्धम् । प्रतिरात्रं च स मुनिनन्दनविजयगुणविजय-लावण्यविजयैः सह नियतरूपेण शब्दतोऽर्थतश्च पठितग्रन्थानां स्वाध्यायमावृत्तिं चाऽपि करोति स्म ।।
तथा गुरूणां पार्वे सतीर्थ्यमुनिवरैः सह श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनमपि कृतवान् सः ।
दीक्षाग्रहणात् पूर्वं कियन्तं कालं यद् भावनगरे ज्येष्ठभ्रातुः शामजी-इत्यस्य गृहे तेन निवासः कृतस्तदा तस्य कवित्वस्य परिचयेनाऽस्याऽपि मनसि काव्यरचनारुचिः प्रादुर्भूता आसीत् । ततस्तेन स्वल्पः प्रयत्नोऽपि अस्यां दिशि कृत आसीत् । सा रुचिरस्यां चातुर्मास्यां विशेषरूपेणाऽङ्करिता पल्लविता च । अतो मुनिअमृतविजयेन आबाल-वृद्धरुचितानां प्रभुसम्मुखं गीयमानानां चतुविशतिजिनस्तुतीनां रचना तदा कृता । संस्कृतभाषायामन्यान्यपि श्लोक-स्तुति-स्तवनादीनि विरचितानि । तानि दृष्ट्वा गुरुभगवद्भिरन्यैश्च मुनिवर्यैर्बाढं प्रशंसितानि हर्षोत्फुल्लितमानसैश्च कथितम्"अहो ! अमृतविजयेनैतावता स्तोककालेनैव सर्वेषां विस्मयकरीयं काव्यरचना कृता । एता रचनाः प्रासादिकता-प्रयोगशुद्धि-रचनासौष्ठवादिभिर्गुणैः प्राक्तनकवीनामिव दरीदृश्यन्ते ।" ।
चातुर्मास्यनन्तरं जेसलमेरतीर्थयात्रा षड्-री-पालकसङ्घन सह पूज्यगुरुभगवतां निश्रायां विहिता । तदनु फलवृद्धिनगरे चातुर्मासी स्थिरता कृता । तत्र च बृहद्हेमप्रभाव्याकरणाभ्यासः समाप्तः । यतो निर्धारितकाले स पूर्णो नाऽभवदतो नियमपालनाय तेन मासद्वयं यावद् घृतत्यागो विहितः । पूर्णे चाऽभ्यासे ततो नियमात् स विमुक्तः। अहो ! नियमपालनदायम् । ततो विहृत्य बिकानेरनागोर-बिलाड़ा-कापरडातीर्थादिक्षेत्रेषु स्पर्शनां विधाय वेदर्षिग्रहचन्द्र(१९७४)मिते वैक्रमीये संवत्सरे पालीनगरे चतुर्मासी 236
विविध हैम रचना समुच्चय