________________
संयमग्रहणे च बद्धपरिकराः दृढप्रतिज्ञावन्तश्च समभूवन्, तेषु त्रयाणां दीक्षा सञ्जाता किन्तु चतुर्थो लवजी-इति अवशिष्ट आसीत् । स यथाकथमपि गृहात् पलाय्य सादडीग्रामे गुरुचरणयोः समुपस्थितः । मधुरवचसा गुरुभिराभाषितः स परमां प्रसत्तिं प्राप । ततस्तेनाऽवनतशिरसा योजितकरकुड्मलद्वयेन च विज्ञप्ता गुरुभगवन्तः - "हे कृपालवो गुरुवर्याः ! मयि कृपां कृत्वा प्रयच्छतुतरां मे पारमेश्वरी प्रव्रज्याम् । विद्यते तत्कृते मम मनसि दृढो निर्धारः । अथ चाऽस्मिन् कार्ये कृतो मनागपि विलम्बो मामसह्यः प्रतिभाति । भवन्तस्तु जानन्त्येव यन्मम गृहानिर्गमनमत्राऽऽगमनं च नैव सुकरम् । भूयसा परिश्रमेण कथं कथमपीह भगवत्पादयोः समुपस्थितोऽस्मि । अतः प्रयच्छतु शीघ्रं मे दीक्षाम् । मा किमप्यधुना विचारयन्तु भवन्तः । सर्वं शोभनमेव भविष्यति ।"
प्रबलवैराग्यवन्तं दृढमनोबलयुतं च तं दृष्ट्वा गुरुवर्यैः रहस्येव तस्मै दीक्षा प्रदत्ता, तन्नाम च 'मुनिलावण्यविजयः' इति स्थापितम्। एतत् सर्वं तथा गुप्ततया विहितं यथा प्रत्यहमुपाश्रयमागच्छतामप्येतद्वृत्तं नैव ज्ञातम् । एतस्मिन् गुप्तावासे तस्य नूतनमुनेः सर्वमपि कार्यजातं मुनिअमृतविजयेन विना कयाचित् प्रत्युपकारापेक्षया सम्पादितम् । अतो मुनिलावण्यविजयस्य हृदि अमृतविजयं प्रति भूयान् सद्भावो प्रकटितः । _ 'गुरूणां प्रसादः सर्वासां सिद्धीनां मूलमादिम्' इति सर्वेषां सहृदयहृदयानां विदितचरमेव । तस्य च गुरुप्रसादस्य मूलं विनय एव । अयं विनयो मुनिश्रीअमृतविजयेन निजजीवने तथाऽनन्यभावेन परिणामितो यथा स गुरुभगवतां सर्वेषां चाऽन्येषां मुनिवराणां परम-स्नेहास्पदमभूत् ।
योगोद्वहनं ग्रन्थरचना च अथ सादडीग्रामस्य चतुर्मासीस्थिरतायां त्रीणि कार्याणि तस्य सुचारुतया सञ्जातानि । अभ्यासो योगोद्वहनं ग्रन्थरचना च । ततः चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
235