________________
वयं ह्येतत् समीचीनतया जानीमो यद् गुरूणां कृपादृष्ट्यैव विशदावदाता बुद्धिनिर्मलं ज्ञानं च लभ्यते । ये च गुरुभगवत्सु समर्पितहृदया तेषु गुरुकृपामृतधारा विनाऽऽयासेनैव वर्षति । ततश्च ज्ञानाभ्यासोऽपि तेषां निर्विघ्नतया वर्धते । एतत् सर्वं स्वीयनिर्मलबुद्धया स्वयमेव जानानेन नूतनमुनिश्रीअमृतविजयेन तीव्रक्षयोपशमप्रबलपुरुषार्थयोर्बलेन गुरुकृपामृतपानेन च स्तोके नैव कालेन ज्ञानाभ्यासे शोभना प्रगतिः कृता । प्रारम्भे आवश्यकसूत्राणां ततश्च संस्कृतव्याकरणादिशास्त्राणां चाऽध्ययनं कृतम् । मरुधरदेशीयविशुद्धजल-वायुप्रभावेण तस्य स्वास्थ्यमपि समीचीनं सञ्जातं, यच्च दीक्षाग्रहणपूर्वं किञ्चित् प्रतिकूलमासीत् ।
चतुर्मास्यनन्तरं कार्तिकृष्णद्वितीयादिने मुनिश्रीअमृतविजयस्योपस्थापना विहिता । तदवसरे बोटादतः समागता देशाईलक्ष्मीचन्द्र 'हेमचन्द्र-नरोत्तमदासप्रमुखाः सर्वेऽपि स्वजनाः स्वीयमुनिवरस्य संयमस्थैर्याभ्यासलीनता-चित्तप्रसादादिकं च निरीक्ष्याऽतिवेलमानन्दमधिजग्मुः ।
ततो गुरुभगवन्तो विहृत्य सादडीग्रामं प्राप्ताः । तत्र मुनिश्रीनन्दनविजयस्याऽपि आगमनं सञ्जातम् (यः पूर्वं अमृतलालस्य मित्रं नरोत्तम आसीत् ) । बहोरने हसः पश्चात् स्वस्य प्राक्तनस्य प्रगाढमित्रस्य मिलनेन द्वयोरपि परमो हर्षोऽभूत् । सरसं स्वस्वदीक्षादिव्यतिकरं वर्णयतोस्तयोर्द्वयोः कियान् कालो व्यतीतस्तदपि न ज्ञातम् । तौ द्वावपि परस्परस्य नैपुण्यं धैर्य कार्यसाफल्यं च प्रशशंसतुः। नूनं द्वयोः समवयस्कवयस्ययोर्मित्रयोः कीद्क् सारूप्यम् ! द्वावपि गुप्तरीत्या गृहान्निर्गत्य मनोदाइँण प्रबलपुरुषार्थं स्फोरयित्वा संयम स्वीचक्रतुः ।
स्वमित्र-लवजी-इत्यस्य दीक्षा शासनसम्राजा विक्रमीयरस-दर्शन-ग्रह-शशाङ्क-(१९६६) मितसंवत्सरे बोटादग्रामे चतुर्मास्यां ये पञ्च सुहृदः प्रतिबुद्धाः
विविध हैम रचना समुच्चय
234