________________
प्रबलपुरुषार्थयोः संयोगेन स सफलीभूतोऽस्ति । येषां कुटुम्बमध्यात् पुत्राः पुत्र्यश्च दीक्षां गृह्णन्ति तेषां प्रशंसां स्वर्गलोके देवा देवेन्द्राश्च सदैव कुर्वन्ति । अतो मा यूयं खिन्ना भूत" इति ।
गुरुभगवतामीदृशैर्वचनैः परं प्रीणिताः सर्वे भूयो भूयो गुरुचरणयोः प्रणामान् विदधुस्तेषां महोपकारं च मेनिरे ।
ततो सर्वेऽपि नूतनमुनि सबहुमानमकथयन् - "अयि भ्रातः ! दीक्षा तु त्वया महता पराक्रमेण गृहीतैव । अथ सिंहवत् तत्पालनमपि विधेयम् । अत्र मनागपि प्रमादो नैव कर्तव्यः, अतिचारवर्जनपूर्वकं संयमपालने ज्ञानाध्ययने च प्रयतितव्यम् । अस्माकं कुलं च द्योतितव्यम् । एतादृशा गुरुभगवन्तः महापुण्योदयं विना नैव कदाचिदपिलभ्यन्ते" इति ।
शास्त्राभ्यासः संयमाराधना च ज्ञानं हि दीपकवदुद्योतकम् । तेनैव जीवनपंथाः प्रकाशितो भवति । तदेव च मूलं सर्वेषां विवेक-वैराग्यादिगुणानाम् । ज्ञानेनैव भवभ्रमणहेतुभूता विषयकषायाद्यान्तरशत्रवः परास्ता भवन्ति । ज्ञानस्य सर्वातिशायिमाहात्म्यप्रदर्शनाय महोपाध्यायश्रीयशोविजयवाचकैः कथितमपि ज्ञानसारे
पीयूषमसमुद्रोत्थं रसायनमनौषधम् । अनन्यापेक्षमैश्वर्यं ज्ञानमाहुर्मनीषिणः ॥ (५/८)
आत्मनो येऽनन्ता गुणाः सन्ति तेषु ज्ञानदर्शयोर्मुख्यता, तयोर्द्वयोर्मध्येऽपि च ज्ञानस्यैव मुख्यत्वम् । यतो दर्शनस्य सम्प्राप्तिरपि प्रायो ज्ञानेनैव भवति । ज्ञानमेव हि अप्राप्तदर्शनचारित्रादिगुणानां प्रापणे प्राप्तानां च तेषां रक्षणे प्रबलो हेतुः । अतस्तदुपार्जने सर्वथा यतितव्यमेव । इति मनसि निधाय शासनसम्राजो गुरुभगवन्तः सर्वदा स्वशिष्यान् ज्ञानाभ्यासार्थं प्रेरयन्ति स्म । स्वयमपि च शिष्याणामध्यापने भृशं प्रयतन्ते स्म ।। चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
233