________________
'विजय' पदं नियोज्य, तथा भविष्यत्कालेऽयमवश्यमेवाऽमृतत्वं प्राप्स्यतीति तन्नाम्नि वर्तमानं 'अमृते' तिपदं यथावस्थितं रक्षित्वा तस्याऽन्वर्थमभिधानं 'अमृतविजय' इति विहितम् । प्रव्रज्याप्रदानसमये गुरूणां करकमलाभ्यां रजोहरणं सम्प्राप्य परं प्रीणितोऽसौ तथाऽनृत्यद् यथा तं दृष्टवा सर्वेऽपि विसिष्मियुः । क्षुधितस्येष्टभोजनप्राप्तिवत् अमृतलालस्या-ऽपि हृदये संयमं प्राप्याऽऽनन्दमहासागरः समुच्छलितोऽभवत् ।
तदनन्तरं तु स निरंन्तरं संयमसाधनसावधानो गुरुसेवाकरणतत्परो ज्ञानाभ्याससंलीनश्चाऽभूत् । एतत् सर्वं तस्य "मातुलगृहे भोजनं माता च परिवेषिका" इतिवत् ईप्सितमेव सञ्जातम् ।
बोटादतः स्वजनानामागमनम् अमृतलालेन दीक्षा गृहीताऽस्तीति समाचारः कियत्कालव्यपगमानन्तरं बोटादवास्तव्यानां स्वजनानां श्रुतिगोचरोऽभवत् । तदा तु वर्तमानकालवत् समाचारप्रेषणव्यवस्था नाऽऽसीत् । हेमचन्द्रदेशाई प्रभृतयः कुटुम्बिनः सर्वे 'संसारेऽस्मिन् नाऽस्ति कश्चित् सारः, सारस्तु केवलं संयमग्रहण एव' इति जानन्तोऽपि मोहपरवशा अमृतलालस्य संयमस्वीकारवार्ता निशम्य क्षुब्धा अभवन् । सर्वे च सम्मिल्य शीघ्रतरमेव जावालग्रामे सूरीश्वराणां सन्निधौ समागताः । यदा ते सर्वे उपाश्रये समागतास्तदा सूरीश्वराः स्वशिष्यसमुदायाय श्रीप्रज्ञापनासूत्रस्य वाचनां दातुं प्रवृत्ता आसन् । अतः कञ्चित्कालं सर्वेऽपि तत्रैव तूष्णीं भूत्वा उपविष्टाः । मुनिसमुदायमध्ये उपविष्टं श्रमणवेषे शोभायमानं च नूतनमुनीभूतं स्वपुत्रं दृष्ट्वा सर्वेऽपि परमां प्रीतिं प्रापुः । वाचनानन्तरं पूज्यगुरुभगवद्भिः तान् प्रति कथितं-"भो भो महानुभावाः ! यूयं महाभाग्यशालिनः स्थ, यद् युष्मत्कुटुम्बमध्यादयमेकः संसारानिःसृत्य संयम स्वीकृतवान् । बहोः कालादेवाऽस्य हृदि संयमस्वीकारस्य विचारस्तु आसीदेव, किन्तु तादृशयोगाभावात् स सफलो न भूतः । अधुना तु परमपुण्योदय232
विविध हैम रचना समुच्चय