________________
विशालवटवृक्षच्छायामिव सञ्जातम् । गुरुचरणारविन्दयोः प्रणामं कृत्वाऽऽशिषं च लब्ध्वा धन्यम्मन्यः सोऽतीवाऽमोदत ।
पूज्यगुरु भगवताऽपि च पीयूषवृष्ट्येव निजाप्रतिमप्रसादपूर्णदृष्टया स काममभिषिच्यत । ततो पृष्टवन्तो भगवन्तस्तं मधुरवचसा"रे ! आगतस्त्वम् ? दीक्षार्थं सज्जीभूयाऽऽगतोऽसि न वा ? "
"आम् आम् भगवन्तः ! भवतां प्रसादेन पूर्णतया सज्जीभूतोऽस्मि । अतो भवद्भिः क्षणमात्रस्याऽपि विलम्बो नैव कर्तव्यः । "
तस्यैतादृशोत्साहपूर्णवचनैर्गुरुवरा अन्येऽपि च सर्वे भृशं
प्रीणिताः ।
ततो गुरुभिः पन्यास श्रीउदयविजयगणीनाहूयाऽमृतलालस्य दीक्षामुहूर्तं निरीक्षितुमाज्ञप्तम् । तैश्च पञ्चाङ्गमवलोक्य विज्ञप्तम्“गुरुवराः ! एतदर्थं श्वो दिनमर्थात् ज्येष्ठकृष्णषष्ठीतिथिरेवाऽत्यन्तं शुभतिथिर्वर्तते ।" एतन्निशम्याऽमृतलालस्य मनोमयूरः कामं नर्तितुमारब्धः । स चिन्तितवान् यद् - ' यन्मयेप्सितमासीत् तदतिशीघ्रतयैव सम्पत्स्यते ।'
ततो गुरुभिरपि जावालनगराग्रगण्याः समाहूता अमृतलालस्य दीक्षाग्रहणोदन्तश्च ज्ञापितस्तेभ्यः । एतच्छ्रुत्वा तेऽपि परमोत्साहं दधतो झटिति तन्निमित्तां सामग्रीं प्रगुणीकृतवन्तः ।
पारमेश्वरीप्रव्रज्या
यदि कतिचनदिवसाः मध्येऽभविष्यन् तदा तु तन्निमित्तकं प्रभुभक्तिमहोत्सवं भूरिद्रव्यव्ययेनाऽपि तत्रत्याः श्रावका अकरिष्यन्, किन्तु मुहूर्तमुत्तममासीदतो पूज्यपादशासनसम्राड्गुरु भगवद्भिः सोत्साहं अमृतलालाय पारमेश्वरी प्रव्रज्या प्रदत्ता । तत्राऽपि तन्नामतो रागसूचकं लालशब्दमपहाय विरक्तचित्तोऽसौ सुविशुद्धसंयमाराधनेन मोहमहीपतिचमूं पराभूय विजयं प्राप्नुयादिति चिन्तयित्वा तन्नामाग्रे
चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेश:
231