________________
इतस्तस्य स्वजनाः कुतोऽपि सत्समाचारं लब्ध्वा धावं धावं मोरबीग्राममागतास्तमादाय च बोटादऩगरं समागच्छन् । नरोत्तमदासस्य हितशिक्षा पूज्यगुरुणां पार्श्वे प्रेषणं च
एकदोपाश्रये सामायिकस्थं तं किमप्यध्ययनं कुर्वन्तं दृष्ट्वा तत्पितृव्यपुत्रो नरोत्तमदासो हितबुद्धया तमकथयत्- " अरे भद्र ! किमर्थमितस्ततोऽटित्वा वृथा समयं निर्गमयसि ? यद्यभ्यासं चिकीस्तदा शासनसम्राजां पूज्यगुरुभगवतां पार्श्व एव गत्वा तत्र स्थिरीभूय स्वस्थतयाऽभ्यासं कुरु, इतस्ततो भ्रमणेन तु तवाऽमूल्य: समयो निष्फल एव व्ययीभविष्यति ।" तदीया हितशिक्षा तस्मै भृशमरोचत । नरोत्तमदासेन चाऽपि तज्जनकादीन् बोधयित्वा तस्य गुरु भगवतां पार्श्वेऽभ्यासार्थं गमनं निश्चायितम् ।
ततो निर्णीते शुभदिवसे सर्वेऽपि स्वजना सम्बन्धिनश्च सम्भूयाऽपूर्वानन्दोल्लासेन कुङ्कुमतिलककरण - श्रीफलार्पणादिपूर्वकं सम्मान्याऽमृतलालं प्रस्थापयामासुः । यद्यपि तेषां सर्वेषां हृदि अमृतलालस्तु स्वमनसि स्वकीयदीक्षार्थमेवेदं प्रस्थानमिति निश्चितवानासीत् । प्रयाणसमये स्वस्मिन् गाढस्त्रेहवती भगिनी चम्पा बाढं रोदनं कृतवती तेन च सर्वेऽपि गद्गदाः सञ्जाताः । ततो जनकादीनामाशीर्वादं गृहीत्वा नमस्कारमहामन्त्रस्मरणपूर्वकं गृहान्निःसृत्या - ऽग्निरथयानद्वारा पिण्डवाडानगरं प्राप्तः । तत उष्ट्रमारुह्य ब्राह्मणवाडातीर्थमागत्य चरमतीर्थपति श्रीमहावीरस्वामिनां दर्शन-पूजनदिकं कृतवान् । ततः सीरोहीनगरं गत्वा क्रमशो जावालनगरमासदत् । तत्रैव पूज्यगुरु भगवन्तो विराजमाना आसन् । अतः स शीघ्रमुपाश्रयं गत्वा शासनसम्राजां गुरुभगवतां दर्शनवन्दनादिकं कृत्वा तादृशं वचनातिगमाह्लादं प्राप्तवान् येन क्षणमात्रादेव तस्याऽध्वखेदो व्यपनुनोद । तद्दर्शनं हि तस्य, बुभुक्षाक्षामकुक्षेः घृतपूरभोजनमिव तीव्रपिपासाकुलितस्य शीतलमधुरजलपानमिव, मध्यन्दिनदिनकरखरकिरणसन्तप्तस्य विविध हैम रचना समुच्चय
230
1