________________
नीतिसूरीश्वरास्तत्र समाजग्मुः । तैरमृतलालस्य वृत्तान्तः कुतोऽपि विदित्वा वन्दनार्थं समागता श्रीहेमचन्ददेशाई-प्रभृतयः समाख्याता:'श्रूयते यद् भवतां तनयोऽमृतलालो भावनाशीलो वर्तते, यदि भवद्भयो रोचते तदा तमस्माभिः सह प्रेष्यताम् । अस्माकं सविधे शास्त्रिणो वर्तन्ते, ते च वः सूनुममृतलालमपि सुतरां पाठयिष्यन्ति' इति । तेऽपि गुरूणां वचः सरलतया स्वीकृत्याऽमृतलालं गुरुभिः सह प्रहितवन्तः ।
त्यागितपस्विगुरु भगवद्भिः सह विहारकरणस्याऽऽनन्दं तु योऽनुभवति स एव जानाति । गुरुभिः सह विहरन् अमृतलालो क्रमशो वलभीपुरं समाजगाम । तदा तन्नगरस्य 'वळा' इति सञ्ज्ञाऽऽसीत् । तत्र मासत्रयं स्थिरतां कृतवन्तः पूज्यगरुभगवन्तः । अमृतलालस्य तु तत्रत्या स्थिरता विशिष्टलाभदायिनी सञ्जाता । तद्ग्रामवास्तव्यः पण्डितश्रीभगवानदासस्तदा तत्रैव निवसन्नासीत् । तत्पार्श्वेऽमृतलालेन संस्कृतमार्गोपदेशिकाया अध्ययनं कृतम् । ततो विहृत्य गुरवो वीरमगामनगरं प्राप्ताः । चतुर्मास्यपि तत्रैव गमिता । तदा पण्डितश्रीप्रभुदासपार्श्वे मन्दिरान्तः प्रवेशिकाऽभ्यस्ताऽमृतलालेन ।
तत्रैकदा तस्य ज्वरबाधाऽभवत् । भूरितरौषधोपचारैरपि कथमपि निरामयतामलभमान स स्वास्थ्यलाभाय भोयणीतीर्थमागतः । तत्रत्यशान्त - निर्दूषणवातावरणस्य प्रभावेन स सज्जो जातः । तदा योऽवकाशो लब्धस्तत्र स्वामिरामतीर्थ-विवेकानन्दादीनां साहित्यपठनेन स निजवैराग्यभावनां दार्यान्वितामकरोत् ।
ततः स मोरबीनगरे प्रयातः । तदा तत्र विराजमानानां श्रीमतां सन्मित्र श्रीकर्पूरविजयमहाराजानां समागमोऽभवत् । स तैः सार्धं कच्छदेशे माण्डवीग्रामं यावद् गत्वा पुनरपि मोरबीपुरमायातः । तत्सन्निधौ मासद्वयं यावत् निवासेन तेषां त्याग - वैराग्यपूर्णजीवनेन स स्वमनसि सुष्ठु प्रभावितः । तत्र निवाससमये यदा कदाचित् ग्रामबहिर्भागे गत्वा स श्मशानभूमावपि निर्भीकतया कायोत्सर्गादि कुर्वन्नासीत् ।
चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेश:
229