________________
मुहुर्मुहुः हर्षोद्गाराः समायान्ति स्म । नाऽमात् तस्य चित्ते आनन्दः ।
इतस्तस्य स्वजना गृहान्तर्बहिश्च तमलभमाना, 'नूनं स गुरुणां सविध एव गतो भवेद्' इति विमृश्य कर्पटवाणिज्यपुरं सम्प्राप्ताः । तान् सर्वान् दुष्ट्वाऽमृतलालेन चिन्तितं 'यत् सम्भावितं तदेव जातमिति नाऽत्र किमप्याश्चर्यकरमेतत् ।' तैः पृष्टम् - 'रे ! कथं कमप्यनापृच्छ्यैव सहसाऽत्राऽऽगतोऽसि ?' एतन्निशम्याऽमृतलालेनाऽपि विना क्षोभं प्रत्युत्तरं दत्तम् - 'गुरुभगवतां दर्शनोत्कण्ठयैवाऽत्राऽऽगतोऽस्मि ।' ते च तम्-'त्वादृशस्य विनीतस्यैवं करणं नोचितम् । यत्किमपि कार्यं त्वया कर्तव्यं भवेत् तदस्माकमनुमत्यैव करणीयं, नैवमेव' इति कथयित्वा तमादाय राजनगरमायाताः । ततो निःसृत्य तारङ्गातीर्थयात्रां कृत्वा गृहमुपेताः । गृहागमनानन्तरं स्वजनैरमृतलालस्य रक्षणाय विशेषरूपेण सज्जता विहिता ।
कतिचिद् दिवसानन्तरं जनकादिना किमपि विचार्य अमृतलालः भावनगरनगरे धार्मिकाध्यापकस्य निजज्येष्ठबान्धवस्य श्रीशामजी-इत्यस्य समीपे प्रेषितः । तत्र गमनमपि तस्य इष्टं वैद्योपदिष्टमिव सञ्जातम् । ज्येष्ठभ्राता हि तदा भावनगरे सुविश्रुत आसीत् । तन्नगरवास्तव्या भूयांसो बुद्धिशालिनस्तत्त्वजिज्ञासवश्च प्रतिदिनं तस्य पार्वे समागत्य धार्मिकाध्ययनं संस्कृताध्ययनं च कुर्वन्ति स्म । अमृतलालस्याऽपि तत्समीपे निवासी भूरितरलाभजनको जातः । अध्ययनं तु तत्र तेन विहितमेव किन्तु तत्समागमतः तस्योत्तमसंस्कारप्राप्तिः वैराग्यभावाभिवृद्धिरपि सम्यक्तया सञ्जाता । कतिपयदिनानन्तरं स पुनरपि बोटादनगरं समायातः ।
... अनुकूलसंयोगप्राप्तिः नीतिशास्त्रेऽप्येवमुच्यते यद् ‘यस्य भावि सुन्दरं वर्तते तस्य सहजतया सानुकूलाः संयोगाः सम्पद्यन्ते । अमृतलालस्याऽपि एवमेव जातम् । ग्रामानुग्रामं विहरन्त एकदा पूज्याचार्यप्रवरश्रीमद्विजय228
विविध हैम रचना समुच्चय