________________
वैयावृत्त्यादिषु च समुल्लसितमानसा आसन्, तथा प्राप्तस्य मनुज जन्मनः फलं न हि प्रव्रज्याग्रहणाद् ऋतेऽन्यत् किमप्यस्तीति सर्वे ते दृढतया जानन्त्यपि स्म । तथाऽपि मोहस्य गतेर्वैचित्र्यात् स्वपुत्रस्य दीक्षाग्रहणवार्तामपि श्रोतुमशक्ताः ते, तदा का वार्ता तदनुमतिप्रदानस्य ? यथा यथा एते दृढवैराग्यवन्तोऽभवन् तथा तथा तेषां स्वजनास्तान् दृढमोहबन्धनैर्बद्धं प्रयत्नान् कुर्वन्तो धर्मक्रियाकरणेऽपि अवरोधं कुर्वन्ति स्म । किन्तु एते तत्सर्वमकिञ्चित्करं मत्वा स्वनिर्धारितविचारणायां पुरः पुर एव प्रस्थिताः ।
कर्पटवाणिज्यनगरे गुरुवराणां पार्वे गमनम् ___ तदानीं पूज्यपादगुरुवराः कर्पटवाणिज्यनगरे चतुर्मास्यर्थं विराजमाना आसन् । स संवत्सरः ग्रह-रस-निधि-विधु( १९६९) मित आसीत् । अमृतलालस्य मनसि गुरुवराणां दर्शन-करणार्थमतीव लालसा समुत्पन्ना । किन्तु तदा तस्य तत्र गमनं तु सुकरं नाऽऽसीदेव । इतो निर्गत्य तत्र संगमने मध्ये भूयांसो विघ्ना अनेकानेके च प्रतिबन्धका अभवन् । अस्य तु न तद्विषयकं किञ्चिज्ज्ञानमासीत् । अतः किं कर्तव्यम् ? केनाऽध्वना कथं च तत्र गन्तव्यम् ? इत्यादिकं सर्वमपि अज्ञातचरमेवाऽऽसीत् । तथाऽपि दृढ़मनोबलस्य उदारसत्वस्य च पुरुषस्याऽने साधनशैथिल्यस्य किं सामर्थ्यम् ? यतः नीतिशास्त्रेणाऽपि महतां कार्यसिद्धौ सत्त्वस्यैव हेतुत्वं निर्धारितं न तु साधनानाम् । साधनानि तु सत्त्वावलम्बितान्येव ।
'येन केनाऽप्युपायेन मया तत्र गन्तव्यमे वे'ति कृतनिर्धारः स ततो गुप्तरीत्या निर्गत्य बहिर्गमनानुभववैकल्येऽपि स्वमतिचातुर्येण सर्वं सम्पाद्य गुरुवर्याणां चरणकमलयोः समुपस्थतोऽभवत् । पूज्यगुरुवराणां नयनसुधाञ्जनकल्पेन पुण्यदर्शनेन वचोऽतिगामानन्दानुभूति सोऽन्वभवत् । पूज्यगुरुभिरपि वात्सल्यपूर्णदृष्टिपातेन मधुर-वचोभिश्च स भृशं सन्तोषितः । कतिपयदिवसैः भूयो भूयो विचार्य मनसा निर्धारितं कार्यं सुष्ठरीत्या सम्पन्नम्-इति विचारयतोऽमृतलालस्य मनसि चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
227