________________
गहनपदार्थानामवबोधे तस्य मतिरपरिपक्वाऽसमर्था चाऽऽसीत् तथाऽपि जम्बूस्वामिचरित्रव्याख्यानं तु स नित्यमव्यवहितमनसाऽशृणोत् । तत्राऽपि जम्बूस्वामिनः पूर्वभववर्णने व्यावर्णितं भवदेवनागिलयोः शिवकुमारस्य च चरितमाकर्ण्य स भृशं चकितविरक्तमानसो बभूव । एतच्चरित्रश्रवणत एव तस्य हृदि वैराग्याङ्कुराः प्रास्फुटन् ।
व्यावहारिकाभ्यासः पञ्चमकक्षां यावत् व्यावहारिकाभ्यासं कृत्वा तदनन्तरं स धार्मिकाभ्यास एव दत्तचित्तोऽभवत् । सर्वे स्वजनाः तस्य मनोऽन्यत्र वालनार्थं तं लक्ष्मीचन्द्रश्रेष्ठिनो वस्त्रहट्टे उपावेशयन् । स्वजनानामयं प्रयत्नस्त्वमृतलालस्येष्टं वैद्योपदिष्टमिव समजनि । यतः लक्ष्मीचन्द्रसदृश-धर्मनिष्ठपुरुषस्याऽनायासेनैव सान्निध्यमवसादितं तेन । ततश्च प्रसङ्गे प्रसङ्गे तेन सह वार्तालापेन तद्व्यवहारदर्शनेन च तस्य धर्मनिष्ठायाः प्रामाणिकतायाः सत्यवादितायाश्च संस्काराः स्वजीवने समवतेरुः । हट्टोपवेशनसमये च क्वचित् कदाचिदवकाशवेलायां लक्ष्मीचन्द्रोऽमृतलालं शिक्षयितुं विविधविषयवार्तागुम्फितानि शिक्षा वचनानि कथयामास । तथा तस्याऽध्यात्मकल्पद्रुम-उपदेशमालादिग्रन्थानां पठनावसरोऽपि प्राप्तः । एतेन तस्य वैराग्यभावनायाः पुष्टिः समजायत ।
इतो मोहपरवशाः स्वजना अमृतलालं तदीय मित्रचतुष्कं च मोहपाशे नियोक्तुं भृशं प्रायतन्त । एतेऽपि पञ्च परस्परं रहसि सम्मील्य कस्य गृहे किं किं सञ्जातम् ? परिजनाश्च तं किं किं कथयन्ति शिक्षयन्ति ताडयन्ति वा ? स्वयं च स तान् किं किं प्रत्युत्तरितवान्इत्यादिकं संभाष्य भाविकार्यक्रमं निश्चिन्वन्ति स्म । पञ्चसु च तेषु मित्रेषु अमृतलाल एव वयसा ज्येष्ठोऽतो सर्वेऽपि ते तन्मार्गदर्शनमधिगत्यैव स्वं स्वं व्यूहं रचयामासुः । यद्यपि सर्वेषां मातापित्रादयः स्वजनाः श्रद्धालवो धर्मपरायणा व्याख्यानश्रवणरसिकाः गुरुभक्ति
विविध हैम रचना समुच्चय
226